पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४७४

पुटमेतत् सुपुष्टितम्
४७०
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहे कालनिर्णयः )
 

 हा[१]रीतः--

"अतिचारगते जीवे वृषेऽलौ मीनकुम्भयोः ।
यज्ञोद्वाहादिकं कुर्यात्तत्र कालो न लुप्यते" इति ॥

 दीपिकायाम्--

"त्रिकोणजायाधनलाभराशौ वक्रातिचारेण गुरुः प्रयातः ।
यदा तदा प्राह शुभे विलग्ने हिताय पाणिग्रहणं वसिष्ठः" इति ॥

 त्रिकोणेत्यादिकमर्थात्पाणिग्रहीतुरेव । त्रिकोणं नवमः पञ्चमश्च राशिः । जाया सप्तमराशिः । धनं द्वितीयो राशिः । लाभ एकादशो राशिः । तत्रेत्यर्थः ।

 त्रयोदशदिनपक्षनिषेधमाह व्यासः--

"त्रयोदशदिने पक्षे विवाहादि न कारयेत् ।
गर्गादिमुनयः प्राहुः कृते मृत्युस्तदा भवेत्" इति ॥

 आदिशब्देनोपयनादि । विवाहे दंपत्योः, आदिपदोपात्त उपनयन उपनेतुः, चौले शिशोः, इत्यादि द्रष्टव्यम् ।

 क्षयपक्षः कदा पततीत्यपेक्षायां मदनरत्ने--

"पक्षस्य मध्ये द्वितिथी इते यदा तदा भवेद्रौरवकालयो[२]गः ।
पक्षे विनष्टे सकलं विनष्टमित्याहुराचार्यवराः समस्ताः ॥

त्रयोदशदिने पक्षे नूनं संहरते जगत् ।
अपि वर्षसहस्रेण कालयोगः प्रकीर्तितः" इति ॥

 इते गते । 'पक्षस्य मध्ये द्वितिथी पतेतां तदा भवेद्रौरवकालयोगः' इत्येवमपि कुत्रचित्पाठः । पतेतां क्षयं गच्छत इत्यर्थः ।

 क्षयमासनिषेधो दीपिकायाम्--

"काम्यादिष्वखिलेषु कर्मसु परित्याज्यौ क्षयाख्योत्तरासंक्रान्ती" इति ।

 पञ्चकनिषेधो व्यवस्था च ज्योतिर्निबन्धे--

"गततिथ्या युतं लग्नं नवभक्तावशेषकम् ।
त्रिपञ्चाद्रिखसंख्यं चेत्पञ्चकं न[३] तदा भवेत् ॥
एकावशेषे मृत्युः स्याद्द्वयोर्वह्निः प्रकीर्तितः ।
चतुर्षु तु भवेद्राजा षट्सु चोरः प्रकीर्तितः ॥
रोगोऽष्टसु समाख्यातः शेषं निष्पञ्चकं स्मृतम् ।
मृत्युं विवाहविच्छुक्रसंध्यासु परिवर्जयेत् ॥



  1. ड. हारितः ।
  2. ग. ड. योरगुः । पं ।
  3. ड. च ।