पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४७७

पुटमेतत् सुपुष्टितम्
[विवाहः]
४७३
संस्काररत्नमाला
( विवाहे कालनिर्णयः )
 

 तत्र शुभोत्पातो यथा वराहसंहितायाम्--

"चण्डाशनिमहीकम्पसंध्यानिर्घातनिस्वनाः ।
परिवेषरजोधूमरक्तार्कास्तमयोदयाः ॥
द्रुमेभ्योऽनुरसस्नेहमधुपुष्पफलोद्गमाः ।
गोपक्षिमदवृद्धिश्च शुभाय मधुमाधवे" इत्यादयः ॥

 ग्रहे चन्द्रसूर्यग्रहणे । अत्र सप्तरात्रं सर्वग्रासे संकटविषयकं बोध्यम् ।

 अङ्गिराश्च ग्रासभेदेन वर्ज्यदिनमाह--

"सर्वग्रासे तु सप्ताहमर्धग्रासे दिनत्रयम् ।
त्रिद्व्येकाङ्गुलतो ग्रासे दिनमेकं विवर्जयेत्" इति ।

 वसिष्ठः पुनराह--

"सर्वग्रासे दिनान्यष्टौ सर्वकार्येषु वर्जयेत् ।
षड्दिनानि त्रिभागोने अर्धग्रासे चतुर्दिनम् ॥
चतुर्थांशे त्रिरात्रं स्याद्ग्रहणे चन्द्रसूर्ययोः" इति ।

 कार्यस्याऽऽवश्यकत्वे तु राहुदूषितस्थले वर्ज्यदिनमुहूर्ता उक्ता मुनिमतभेदेन ज्योतिर्निबन्धे--

"पञ्च दिनानि वसिष्ठस्त्रिदिनं गर्गश्च कौशिकस्त्वेकम् ।
यवनाचार्यस्य मुहूर्तं पञ्च मुहूर्तानि दूषयति राहुः" इति ।

 अत्र ग्रह[१]काले भूकम्पादिसमाहारेऽधिकदिनानि वर्ज्यान्याह भोजराजः--

"ग्रहे रवीन्द्वोरवनिप्रकम्पे केतूद्गमोल्कापतनादिदोषे ।
व्रते दशाहानि वदन्ति तज्ज्ञास्त्रयोदशाहानि वदन्ति केचित्"इति ।

 व्रत इत्युपलक्षणं विवाहादीनाम् । अत्र ग्रहणसमये भूकम्पादीनां भूयसां समाहारे त्रयोदशाहमशुद्धं, तदल्पसमाहारे दशाहमिति बोध्यम् ।

 गर्गः--

"दिग्दाहे दिनमेकं तु ग्रहे सप्त दिनानि च ।
भूकम्पे च समुद्भूते त्र्यहाणि परिवर्जयेत् ॥
उल्कापाते च त्रिदिनं धूमे पञ्च दिनानि च ।
वज्रपाते दिनं त्वेकं वर्जयेत्सर्वकर्मसु" इति ॥

 अत्र चानिष्टे त्रिविधोत्पात इत्यनेन सप्त दिनानि वान्युक्तानि । गर्गेण तु दिग्दाहोत्पातवज्रपातयोरेकदिनवर्जनमुक्तम् । यत्र च पूर्वं मतभेदेन न्यूनाधिकमुक्तं तत्र विरोधस्तु तत्तत्कर्मणां सापेक्षनिरपेक्षत्वेन परिहरणीयः ।



  1. ड. हणका ।