पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४८

पुटमेतत् सुपुष्टितम्
४४
[नान्दीश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(वैश्वदेवकरणे विशेषः)
 

 गौर्याः पूर्वं वा गणाधिपावाहनम्[१] । ततस्तत्तन्नाममन्त्रैः काण्डानुसमयेन पदार्थानुसमयेन वा षोडशोपचारैः पूजयेत् । गौर्याद्यावाहितदेवताभ्यो नम इति समुदितरूपेण वा पूजनम् । गौर्याः पूर्वं गणाधिपावाहनपक्षे गणाधिपाद्यावाहितदेवताभ्यो नम इति प्रयोगः । नान्दीश्राद्धस्य पार्थक्येन संकल्पकरणे मातृकापूजनोत्तरं पाकान्तरेण वैश्वदेवं कृत्वा तत्कर्तव्यम् । पुण्याहवाचनसंकल्पेन सहैतत्संकल्पे तु पुण्याहवाचनात्पूर्वं वैश्वदेवः पाकान्तरेणैव कार्यः । वस्तुतस्तु पार्थक्येनैव संकल्पो युक्तः ।

नान्दीश्राद्धप्रयोगः ।

 कर्ता सदूर्वाङ्कुरं साक्षतं जलमादाय--सत्यवसुसंज्ञका विश्वे देवा नान्दीमुखा भूर्भुवः सुवरिदं वः पाद्यं स्वाहा न ममेयं च वृद्धिरिति पात्रे क्षिपेत् । एवमग्रेऽपि । मातृपितामहीप्रपितामह्यो नान्दीमुखा भुर्भुवः सुवरिदं वः पाद्यं स्वाहा न ममेयं च वृद्धिः । नान्दीमुख्य इति केचित् । पितृपितामहप्रपितामहा नान्दीमुखा भूर्भुवः सुवरिदं वः पाद्यं स्वाहा न ममेयं च वृद्धिः । मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिता नान्दीमुखा भूर्भुवः सुवरिदं वः पाद्यं स्वाहा न ममेयं च वृद्धिः ।

 ततः सर्वाङ्कुरं साक्षतगन्धपुष्पजलमादाय--सत्यवसुसंज्ञका विश्वे देवा नान्दीमुखा भूर्भुवः सुवरिदं व आसनगन्धाद्युपचारकल्पनं स्वाहा न ममेयं च वृद्धिरिति पात्रे क्षिपेत् । एवमग्रेऽपि । मातृपितामहीप्रपितामह्यो नान्दीमुखा भूर्भुवः सुवरिदं व आसनगन्धाद्युपचारकल्पनं स्वाहा न ममेयं च वृद्धिः । पितृपितामहप्रपितामहा नान्दीमुखा भूर्भुवः सुवरिदं व आसनगन्धाद्युपचारकल्पनं स्वाहा न ममेयं च वृद्धिः । मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिता नान्दीमुखा भूर्भुवः सुवरिदं व आसनगन्धाद्युपचारकल्पनं स्वाहा न ममेयं च वृद्धिः ।

 ततो गौर्यादिषोडशमातरो ब्राह्म्यादिसप्तमातरो गणाधिपदुर्गाक्षेत्रपालवास्तोष्पतयश्च भूर्भुवः सुवरिदं वो युग्मब्राह्मणभोजनपर्याप्तान्ननिष्क्रयीभूतं चतुर्गुणं द्विगुणं समं वा हिरण्यममृतरूपेण स्वाहा न ममेयं च वृद्धिः । इति विभवानुसारेण दद्यात् । गौर्याः पूर्वं गणाधिपपूजनमिति पक्षे गणाधिपगौर्यादिषोडशमातरो ब्राह्म्यादिसप्तमातरो दुर्गाक्षेत्रपालवास्तोष्पतयश्च भूर्भुवः सुवरित्यादिप्रयोगो ज्ञेयः ।


  1. क. म् । अस्मिन्कल्पे कलदेवतान्ता एव देवता पूज्वा इति युक्तम् । त ।