पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४८०

पुटमेतत् सुपुष्टितम्
४७६
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( सविशेषा विवाहभेदाः )
 

विवाहभेदाः ।

 अथ विवाहभेदाः सविशेषा उच्यन्ते । तत्रेदं धर्मसूत्रम्--

"बन्धुशीलश्रुतारोग्याणि बुद्ध्वा प्र[]जां सहत्वकर्मभ्यः प्रतिपादयेद्ब्राह्मे विवाहे शक्तिविषयेणालंकृत्य दद्यादार्षे दुहितृमते मिथुनौ गावौ देयौ देवे यज्ञतन्त्त्र ऋत्विजे प्रतिपादयेन्मिथः कामान्सां(त्सां)वर्तेत स गान्धर्वो यथाशक्ति द्रव्याणि दत्त्वा वहेरन्स आसुरो दुहितृमतः प्रोथयित्वा वहेरन्स राक्षसः" इति ।

 ब्रह्मणा सृष्टो ब्राह्मस्तस्मिन्विवाहे वरस्य बन्ध्वादीन्वुद्ध्वा परीक्ष्य प्रजां दुहितरं सहत्वकर्मभ्यः सह कर्तव्यानि यानि कर्माणि तेभ्यस्तानि कर्तुं प्रतिपादयेत् । शक्तिविपयेणेति विभक्तिप्रतिरूपकोऽयं निपातो यथाशक्तीत्यस्यार्थे द्रष्टव्यः । यथाशक्त्यलंकृत्य दद्यादित्येष ब्राह्मो विवाहः । प्रजासहत्वकर्मभ्य इतिपाठे प्रजार्थं सहत्वकर्मार्थं चेति ।

 ऋषिभिर्दृष्टे विवाहे मिथुनौ गावौ देयौ स्त्रीगौः पुंगौश्च दुहितृमते देयौ, एष आर्षो विवाहः ।

 देवैर्दृष्टे विवाहे यज्ञतन्त्रे वितत ऋत्विजे कर्म कुर्वते कन्यां दद्यादेष दैवो विवाहः ।

 यत्र कन्यावरौ मिथो रहसि कामाद्रागात्परस्परं सांवर्तेत मिथुनी भवतः स गान्धर्वो विवाहः । समो दीर्घश्छान्दसः । अत्र संयोगादुत्तरकालं विवाहसंस्कारः कर्तव्यः ।

 यत्र विवाहे कन्यावते यथाशक्ति द्रव्याणि दत्त्वा वहेरन्कन्यां स आसुरो विवाहः । कन्यायै गृहक्षेत्रादिदानेन विवाहो नाऽऽसुरः ।

 प्रमथ्य यत्र वहेरन्स राक्षसो विवाहः ।

"हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदद्भ्यो हरेत्स राक्षसः" इत्याश्वलायनः ।

 अत्रापि विवाहसंस्कारः । द्वौ चापरौ विवाहौ शास्त्रान्तरेषूक्तौ ।

 तत्राऽऽश्वलायनः--

"सह धर्मं चरत इति प्राजापत्यः सुप्तानां
प्रमत्तानां वाऽपहरेत्स पैशाचः" इति ।

 ताविह पृथङ्नोक्तौ ब्राह्मराक्षसयोरन्तर्भावादिति व्याख्यातमुज्ज्वलाकृता ।

  1. क. ग. प्रजास ।