[विवाहः]
४८१
संस्काररत्नमाला ।
( विवाहे प्रतिकूलविचारः )
वृ[१]द्धवसिष्ठः--
"वरवध्वोः पिता माता पितृव्यश्च सहोदरः ।
एतेषां प्रतिकूलं स्यान्महाविघ्नप्रदं भवेत् ॥
पिता पितामहश्चैव माता चैव पितामही ।
पितृव्यः स्त्री सुतो भ्राता भगिनी चाविवाहिता ॥
एभिरेव विपन्नैश्च प्रतिकूलं बुधैः स्मृतम् ।
अन्यैरपि विपन्नैस्तु केचिदूचुर्न तद्भवेत्" इति ॥
|
([२]चकारात्प्रपितामहः । द्वितीयचकारः प्रपितामहीसमुच्चयार्थः ।)
माण्डव्यः--
"वाग्दानानन्तरं माता पिता भ्राता विपद्यते ।
विवाहो नैव कर्तव्यः स्ववंशहितमिच्छता" इति ॥
|
तेन तया वा सहेति शेषः । वरपक्षे प्रतिकूले[३] वरार्थं तां न स्वी कुर्यात् । वधूपक्षे प्रतिकूले तस्मै वराय न दद्यादिति विवाहो नैव कर्तव्य इत्यस्यार्थः । न तु विवाह एव न कर्तव्य इति ।
संकटे प्रवृत्तिप्रकारमाह मेधातिथिः--
"वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः ।
तदा संवत्सरादूर्ध्वं विवाहः शुभदो भवेत् ॥
पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम् ।
प्रवेशनिर्गमौ तद्वत्तथा मुण्डनमण्डने ॥
प्रेतकर्माण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियाम् |
आचतुर्थं ततः पुंसि पञ्चमे शुभदं भवेत्" इति ॥
|
स्मृतिरत्नावल्याम्--
"पितुरब्दमिहाऽऽशौचं तदर्धं मातुरेव च ।
मासत्रयं तु भार्यायास्तदर्धं भ्रातृपूत्रयोः ॥
अन्येषां तु सपिण्डानामाशौचं माससंमितम् ।
तदन्ते शान्तिकं कृत्वा ततो लग्नं विधीयते" इति ॥
|
पित्रोरब्दमिहाऽऽशौचमिति क्वचित्पाठः । अत्र मातृपदं[४] सापत्नमातृपरमिति केचित्[५] । एतन्मते पित्रोरब्दमित्ययमेव पाठोऽभिमत इति
- ↑ ङ. वसिष्ठः ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थः क. ख. पुस्तकयोर्नास्ति ।
- ↑ ङ. ले ता वरार्थे न ।
- ↑ ख. ग. ङ. दं सप ।
- ↑ ख. त् । श्राद्धकौमुद्यां तु द्वयोरपीत्युक्तम् । अ ।