पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४८६

पुटमेतत् सुपुष्टितम्
४८२
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहे प्रतिकूलविचारः )
 

गम्यते । द्वयोरपी[]त्यन्ये । अविशेषादित्याशयः[] । एतन्मते पितुरब्दमित्येव पाठः । पित्रोरब्दमितिपाठे मुख्यमातुरब्दं सापत्नमातुरब्दार्धम् । पितुरब्दमितिपाठ उभयोरप्यब्दार्धमेवेति भेदः।

 ज्योतिष्प्रकाशे--

"प्रतिकूलेऽपि कर्तव्यो विवाहो मासमन्तरा ।
शान्तिं विधाय गां दत्त्वा वाग्दानादि चरेत्पुनः" इति ।

 स्मृत्यन्तरे--

"प्रतिकूले न कर्तव्यं लग्नं यावदृतुत्रयम् ।
प्रतिकूलेऽपि कर्तव्यं केऽप्याहुर्बहुसंप्लवे ।
प्रतिकूले सपिण्डस्य मासमेकं विवर्जयेत् ।
विवाहस्तु ततः पश्चात्तयोरेव विधीयते" इति ।

 तयोर्निश्चितघटितयोर्वधूवरयोः । वध्वा वरालाभे वरस्य वध्वलाभे संकटे सति नान्यां वधूमन्यं वरं वा प्रेक्षेदि(ते)ति तात्पर्यार्थः ।

 ज्योतिःसागरे--

"दुर्भिक्षे राष्ट्रभङ्गे च पित्रोर्वा प्राणसंशये ।
प्रौढायामपि कन्यायां नानुकूल्य प्र[]तीक्ष्यते" इति ।

अन्यत्रापि--

"दीर्घरोगाभिभूतस्य दूरदेशस्थितस्य च ।
उदासीनस्थितस्यापि प्रातिकूल्यं न विद्यते ।
संकटे समनुप्राप्ते याज्ञवल्क्येन योगिना ।
शान्तिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् ।
अकृत्वा शान्तिकं यस्तु निषिद्धे सति दारुणे ।
प्रकरोति शुभं कर्म विघ्नस्तस्य पदे पदे" इति ।

 अस्मिन्वाक्ये सामान्यतः शुभं कर्मेतिश्रवणादुपनयनस्यापि विनायकशान्तिपूर्वकमेवानुष्ठानमिति केचित् । अन्ये तु शुभकर्मशब्दो विवाह एवोपसंह्रियते तेन शान्तिपूर्वको विवाह एव भवति । उपनयनं तु नैव भवतीत्याहुः । उपनयनं तु शान्तिमन्तरेणापि भवतीति परे ।

 वसिष्ठः--

"प्रतिकूले तु संप्राप्ते विवाहं नैव कारयेत् ।
अन्ते दोषविनाशाय कुर्याच्छान्तिमिमां शुभाम्" इति ।



  1. ग. ड. पीत्युक्तम् । अ ।
  2. ख. यः । ज्यो ।
  3. क. ग. प्रतीक्षते ।