सिका[१]पकर्षं कृत्वा विवाहो भवति । महागुरुमरणकृतप्रतिकूलाभावे तु वृद्धिनिमित्तमन्तरेण सपिण्डीकरणापकर्षे वृद्धिदैवपित्र्येष्वनधिकार एवेति द्रष्टव्यम् ।
तत्र पितुर्मरणे संकटतारतम्येनानन्तरोक्तं पक्षत्रयम् । मातुर्मरणे संवत्सरार्धं मासमात्रं वेति पक्षद्वयम् । भार्यामरणे मासत्रयं मासमात्रं वेति । भ्रातृमरणे पुत्रमरणे च सार्धमासं मासमात्रं वेत्येवं पक्षद्वयम् । पितामह्यादिसपिण्डान्तरमरणे तु मासमेव प्रतीक्षेति व्यवस्था । यदि गुणवत्तरमातृमरण ऋतुत्रयप्रतीक्षया न परितोषस्तदा संवत्सरप्रतीक्षाऽपि कार्या ।
एवं गुणवत्तरभार्यादिमरण ऋतुत्रयप्रतीक्षाऽपीत्याशयेन तयोरपि पक्षयोः सामान्यविध्युपपत्तिः ।
पितृमातृपितृव्यसोदराणां[२] चतुर्णां मरण उक्तव्यवस्थया प्रतीक्षान्ते विनायकशान्तिः । अन्यमरणे तदन्ते शान्त्यन्तरम् । एतच्च शान्तिद्वयं शान्तिरत्नमालायां वक्ष्यते ।
यदा त्वतिसंकटवशेन सर्वत्र निमित्ते मासादिकप्रतीक्षाया असंभवस्तदा तन्मध्येऽपि[३] किंचित्कालं प्रतीक्ष्योक्तव्यवस्थयाऽल्पतरां शान्तिं कृत्वा गां दत्त्वा वाग्दानादि पुनश्चरेदिति ज्योतिष्प्रकाशवाक्यकृतो विशेषः । न तु क्वचिदपि प्रतिकूले पूर्वाशौचादिनिमित्तेन निवृत्ताशौचस्यापि सद्यो विवाहे प्रवृत्तिरुचिता । यथा सगोत्रसपिण्डे पुरुषत्रयपर्यन्तमेव प्रतिकूलस्य निषेधनिमित्तत्वम् । एवं प्रवेश[४]मुण्डनयोर्निर्गम[५]मण्डननिषेधनिमित्तत्वमपि तेष्वेतावत्पर्यन्तमेवेति पुरुषत्रयेतिमेधातिथिवाक्यार्थः[६] । स्वगोत्रिणामाचतुर्थमित्यनुषङ्गलभ्यार्थसिद्ध्यै प्रेतकर्माण्यनिर्वर्त्येत्यस्य भिन्नार्थकस्यापि वाक्यस्यानन्तरं पाठः । कुले चतुष्पुरुषपर्यन्तं प्रेतोद्देशेन विहितानि कर्माण्यनिर्वर्त्यासमाप्याऽऽभ्युदयिकं नाऽऽचरेदित्यर्थः । प्रेतशब्दोद्देशविशिष्टानि कर्माणीत्येतादृशार्थस्तु सपिण्डीकरणोत्तरमासिकासंग्रहापत्तिग्रस्तत्वात्परित्यक्तः ।
एतेषामुत्पत्तिवेलायां प्रेतोद्देशेन विहितानामपि तच्छन्दोदेशरहिता पुनरावृत्तिः शाट्यायनिनोक्ता--
"सपिण्डीकरणादर्वागपकृष्य कृतानि तु । |