वृद्ध्युत्तरनिषेधनादिति यद्यपि हेतुस्तथाऽपि सव्यं हि मनुष्याः प्रथममञ्जत इतिवदप्राप्तप्रापकत्वाद्विधिः कल्पनीय इति नवीनाः ।
कात्यायनः--
"निर्वर्त्य वृद्धितन्त्रं तु मासिकानि न तन्त्रयेत् । |
वृद्धिकर्मोत्तरं मासिकानुष्ठाने मृतस्य मरणमयातयामं भवेत् । नूतनमिव भवेत् । तच्च माङ्गलिककर्मणः पूर्वं मृतस्य माङ्गलिककर्मोत्तरमापद्यमानमनुचितमिति भाव इति नवीनाः।
केचिन्नवीनाः--
"भ्राता वा भातृपुत्रो वा सपिण्डः शिष्य एव वा । |
इति लघुहारीतवाक्ये भ्रातृशिष्याद्युक्तेर्न नान्दीश्राद्धेज्यदेवतामात्रपरोऽपकर्ष इति[१] । अस्मिन्मते भ्रात्रादिमरणे तत्सपिण्डनमासिकानामपकर्षं विना न नान्दीश्राद्धमिति ।
अन्ये नवीनास्तु यस्याऽऽभ्युदयिकश्राद्धान्तर्गतदेवताभूतस्य सपिण्डनं विना न तन्निर्वहति तस्यैवेह वाक्ये सपिण्डनं विधीयते, आकाङ्क्षितविधानात् । अन्यथा भिन्नजातीयगुरोरपि सपिण्डनं शिष्येण कार्यं स्यादित्याहुः । एत[२]स्मिन्मते तु तद्विनाऽपि भवतीति भेदो द्रष्टव्यः ।
सकलदाक्षिणात्यप्रभृत्यनेकशिष्टाचारसंवादान्नान्दीश्राद्धेज्यदेवतामात्रपरोऽपकर्ष इति द्वितीयमतमेव युक्तम् ।
प्रेतकर्माण्यनिर्वर्त्येत्यत्र यद्यपि प्रेतकर्मभिः सहाऽऽभ्युदयिकक्रियाया मङ्गलापरपर्यायायाः समानकर्तृकत्वं प्रतीयते तथाऽपि तदसति कर्त्रन्तरे मुख्यं सति तु प्रेतकर्मसु प्रयोजककर्तृकतामादायोपपादनीयम् । इत्थमेव हि--"वध्वञ्जलावुपस्तीर्य भ्राता भ्रातृस्था[३]नीयो वा द्विर्लाजानावपति" इत्याश्वलायनसूत्रे वृत्तिकृदादिभिस्तु तदुपपाद्यते, विवाहहोम उपस्तरणस्य वरकर्तृकत्वं लाजावपनस्य भ्रात्रादिकर्तृ[४]कत्वं विच्छिन्नसंधानार्थे तु तस्मॅिंल्ला[५]जहोमस्यापि वरकर्तृकत्वं वदद्भिः ।
एवं नान्दीश्राद्धदेवतात्वसिद्ध्यर्थं सपिण्डीकरणापकर्षपरत्वेन पराभिमतवचनेऽपि समानकर्तृकत्वमित्थमेव स्वीकार्यम् ।