ततः--सत्यवसुसंज्ञका विश्वे देवा नान्दीमुखा भूर्भुवः सुवरिदं वो युग्मब्राह्मणभोजनपर्याप्तान्ननिष्क्रयीभूतं चतुर्गु० । मातृपितामहीप्रपितामह्यो नान्दीमुखा भूर्भुवः सुवरिदं वो युग्मब्रा० । पितृपितामहप्रपितामहा नान्दीमुखा भूर्भुवः सुवरिदं वो युग्मब्राह्म० । मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिता नान्दीमुखा भूर्भुवः सुवरिदं वो युग्म० । इति क्रमेण दद्यात् ।
ततः-- उपास्मै गायता नरः० वता मधु ५ ! अक्षन्नमी० हरी, इति श्रावयित्वा कृतस्य नान्दीश्राद्धस्य संपूर्णतासिद्धये प्रतिविप्रं कुडवपरिमितान्प्रस्थपरिमितान्वा यथासंभवं वा द्राक्षामलकमूलयवांस्तन्निष्क्रयीभूतं द्रव्यं वा दक्षिणां दत्त्वा प्रजापते न त्वदेता० रयीणामिति पठित्वा कुलदेवतां नमस्कृत्य
माता पितामही चैव तथैव प्रपितामही । |
इति श्लोकद्वयं पठेत् । ([२]अत्राऽऽदिशब्देन गुणत्वेन प्रविष्टा मातामह्यादयो ग्राह्याः[३]। मातामहीसत्त्वे प्रमातामहकस्तथेत्येवं पठेत् । नतु प्रमातामहकादय इति।) तत्तत्पार्वणाद्यजीवनवशेन यस्य कस्यचित्पार्वणस्य लोपे तु तत्पार्वणविषयकश्लोकैकदेशस्यापि लोपः कार्यः । सूक्तवाकवदिष्टदेवतासंस्कारार्थत्वाच्छ्लोकपाठस्य । केवलमातृपार्वण एता भवन्तु सुप्रीता इत्यूहः । केवलमातृपार्वणे देवलोपः ।
ततः--इडामग्ने० र्भूत्वस्म इति मन्त्रं पठन्पात्रान्तरेण किंचिद्द्रव्यं संघट्टयेत् । ततोऽनेन नान्दीश्राद्धेन नान्दीमुखदेवताः प्रीयन्तां वृद्धिरस्त्विति वदेत् । वरुणादिदेवताः कर्मसमाप्त्यन्ते विसर्जयेत् । विवाहोपनयनव्यतिरिक्तेष्वनेकदिनसाध्येषु कर्मसु तु तद्दिन एव विसर्जनम् । एतच्चानुकल्पानुष्ठानं मुख्यकल्पासंभवे वेदितव्यम् । स च मुख्यकल्पः श्राद्धप्रकरणे वक्ष्यते ।
इत्याभ्युदयिकश्राद्धम् ।