पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४९०

पुटमेतत् सुपुष्टितम्
४८६
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहे प्रतिकूलविचारः )
 

 तद्यथा शाट्यायनिः--

"प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा ।
अपकृष्यापि कुर्वीत कर्तुं नान्दीमुखं द्विजः" इति ॥

लघुहारीतोऽपि--

"भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सहपिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः" इति ॥

 मृतस्य कन्यादाने हि तस्य ज्येष्ठकनिष्ठभ्रातरावधिकारिणौ कन्यायाः पितृपितामहभ्रात्रभावात्संभवतः ।

"पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः" इतियाज्ञवल्क्यवचनात् ।

 तस्य सपिण्डीकरणे तु कनिष्ठस्यैवाधिकारो न ज्येष्ठस्य ।

"न पुत्रस्य पिता दद्यान्नानुजस्य तथाऽग्रजः ।
अपि स्नेहेन कुर्यातां सपिण्डीकरणं विना"

 इति सपिण्डीकरणस्य तं प्रति विशिष्य निषेधात् । अतो ज्येष्ठस्य सपिण्डीकरणे प्रयोजककर्तृकत्वं कनिष्ठस्य मुख्यकर्तृकतामङ्गीकृत्यैवोक्तवचनयोः समानकर्तृकत्वमुपपादनीयम् । एवं चानयोर्वचनयोर्देवतात्वसिद्धिप्रयोजनासंकीर्तनाद्विधेयाथैक्याच्च मूलैक्यलाघवानुरोधेन प्रेतकर्माण्यनिर्वर्त्येति कृष्णभट्टीप्रयोगोदाहृतवचनार्थपरत्वं स्वीकर्तुमुचितमिति कौस्तुभे ।

 अन्यच्च तत्रैव । पितामहे प्रपितामहे वाऽकृतसपिण्डने सति पितरि मृत औचित्येन तयोः सपिण्डीकरणोत्तरं पितुः सपिण्डीकरणकर्तव्यतायां प्राप्तायामपि यदा तथाऽनुष्ठानेन पितुः सपिण्डीकरणकालातिक्रमो भवति तदा न्यायतः कालातिक्रमेण तथैव तत्कर्तव्यतायां प्राप्तायां वचनेनाकृतसपिण्डीकरणाभ्यामपि ताभ्यां पितुः सपिण्डीकरणं कर्तव्यतया विहितम् ।

 यथाऽऽह कात्यायनः--

"असंस्कृतौ न संस्कार्यौ पूर्वौ पौत्रप्रपौत्रकैः ।
पितरं तत्र संस्कुर्यादिति शातातपोऽब्रवीत् ॥
पापिष्ठमपि शुद्धेन शुद्धं पापकृताऽपि वा ।
पितामहेन पितरं संस्कुर्यादिति निश्चयः" इति ।।

 असंस्कृतावकृतसपिण्डीकरणौ । पूर्वौ पितामहप्रपितामहौ । पापिष्ठमकृतसपिण्डनं पितरं शुद्धेन कृतसपिण्डनेन पापकृताऽकृतसपिण्डनेन वा पितामहेन सह शुद्धं निवृत्तप्रेतावस्थं कुर्यादित्यर्थः ।