एवं कृते दर्शश्राद्धमपि तादृशाभ्यां सह कर्तव्य[१]मित्यपि तेनैवोक्तम्--
"पितुःसपिण्डतां कृत्वा कुर्यान्मासानुमासिकम्" इति । |
एवं च दर्शश्राद्धविकृतित्वान्नान्दीश्राद्धेऽपि तादृशयोर्देवतात्वसंभवेऽपि माङ्गलिकविवाहाद्यनुरोधेन तयोः सपिण्डीकरणं कृत्वैव माङ्गलिकं कर्म कार्यं तयोश्चतुष्पुरुषान्तरगतत्वात् ।
अत एव शुभागम एव सपिण्डीकरणापकर्षनिमित्तत्वेन कालादर्शे पठ्यते--
"एकादशे द्वादशेऽह्नि त्रिपक्षे वा त्रिमासि वा । |
"अनन्तरस्त्रिपक्षः" इति "शुभस्य विवाहादेरागम उपस्थिते सति" इति च तत्रैव व्याख्याय मूलवाक्योदाहरणमित्थं कृतम्--
"महाभारते--'सपिण्डीकरणं कुर्याद्यजमानस्त्वनग्निमान्' ।
इत्युपक्रम्य 'एकादशेऽपि वा मासि मङ्गले स्यादुपस्थिते' इति" [इति ।]
- "अत्र च शुभमङ्गलशब्दाभ्यां विवाहाद्येवोक्तमिति प्रतीतेर्न नान्दीश्राद्धप्रतीतिर्न[२] सुतरां तद्देवतात्वस्य" इत्यपि तत्रैव ।
सपिण्डनापकर्षे तत्पूर्वतनमासिकानामवशिष्टानामपि निवृत्तिः । तदुत्तरकर्तव्यमासिकानामप्यवशिष्टानां निवृत्तिर्वचनादिति द्रष्टव्यम् ।
"प्रेतकर्माण्यनिर्वर्त्य" इति वाक्यात्, |
इति वाक्याच्च चतुष्पुरुषपर्यन्तं यस्य कस्यापि सगोत्रसपिण्डस्य तत्पुत्रे प्रोषितेऽपि व्यवहितोऽपि सपिण्डः प्रेतस्य प्रेतश्राद्धसपिण्डीकरणमासिकानि कृत्वैव वृद्धिश्राद्धं कुर्यादित्यर्थः ।
"प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा । |
इति हेमाद्रिलिखितशाट्यायनिवचोऽप्येतदर्थकमेव, प्रेतकर्मणां यावतः पुरु