पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४९३

पुटमेतत् सुपुष्टितम्
[विवाहः]
४८९
संस्काररत्नमाला
( विवाहे रजोदोषनिर्णयः )
 

 प्रारम्भशब्दार्थो विष्णुनोक्तः--

"प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः ।
नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया" इति ॥

 नान्दीमुखं नान्दीश्राद्धम् । विवाहादावित्यादिपदेनोपनयनादि गृह्यते । पाकपरिक्रिया पाकारम्भः । पाकप्रोक्षणमिति केचित् ।

 "प्रारब्धे सूतकं न स्यात्" इतिवचने सूतकमिति मृतकस्याप्युपलक्षणम् ।

मेधातिथिः--

"चौले च व्रतबन्धे च विवाहे यज्ञकर्मणि ।
भार्या रजस्वला यस्य प्रायस्तस्य न शोभनम् ॥
वध्वा वरस्य वा माता भवेद्यदि रजस्वला ।
तस्याः शुद्धेः परं कार्यं माङ्गल्यं मनुरब्रवीत् ॥
उद्वाहव्रतचूडासु माता यदि रजस्वला ।
तदा न मङ्गलं कार्यं शुद्धौ कार्यं शुभेप्सुभिः" इति ॥

गर्गोऽपि--

"यस्योद्वाहादिमाङ्गल्ये माता यदि रजस्वला ।
तदा न तत्प्रकर्तव्यमायुष्क्षयकरं यतः" इति ॥

 एतेषु वचनेष्वविशेषात्सापत्नमातुरपि ग्रहण[]म् ।

बृहस्पतिः--

"वैधव्यं च विवाहे स्याज्जडत्वं व्रतबन्धने ।
चूडायां च शिशोर्मृत्युर्विघ्नं यात्राप्रवेशयोः" इति ॥

 यदि विवाहादिपारम्भोत्तरं रजः, प्रारम्भात्प्रागपि रजसि सर्वथा मुहूर्तान्तरालाभो वा, तदा शान्तिं कृत्वाऽनन्तरं कर्म कार्यमेव ।

 यथोक्तं कपर्दिकारिकायाम्--

"सूतिकोदक्ययोः शुद्ध्यै गां दद्याद्धोमपूर्वकम् ।
प्राप्ते कर्मणि शुद्धा स्यादितरस्मिन्न शुध्यति ॥
अलाभे सुमुहूर्तस्य रजोदोष उपस्थिते ।
श्रियं संपूज्य तत्कुर्यात्पाणिग्रहणमङ्गलम् ॥
हैमीं माषमितां पद्मां श्रीसूक्तविधिनाऽर्चयेत् ।
प्रत्यृचं पायसं हुत्वाऽभिषिच्य शुभमाचरेत्" इति ॥

 श्लोकभेदेन प्राप्तपदोक्तारम्भस्य मुहूर्तान्तरालाभस्य च श्रवणान्न परस्परसापेक्षत्वमिति कौस्तुभे ।

६२
 


  1. क. ग. णमिति केचित् । बृ ।