पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४९४

पुटमेतत् सुपुष्टितम्
४९०
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहे रजोदोषनिर्णयः )
 

 सूतिकोदक्ययोः शुद्ध्यै गां दद्याद्धोमपूर्वकमितिवचनप्रतिपादिता शुद्धिश्चतुर्थदिवसविषयिणी द्रष्टव्या । अत्र शुद्धिशब्देनाधिकार उच्यते । तथा च--अधिकाराय गां दद्याद्धोमपूर्वकमित्यर्थो भवति । होमपूर्वकमिति विहितो होमः कुश्मा(ष्मा)ण्डैरेव, कपर्दिकारिकासु पूर्वत्र तस्यैवोपक्रमात् ।

 रजस्वलाविषये--

"दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति" ।

 इति वचनसिद्धस्य चतुर्थदिवसेऽनधिकारस्य बाधोऽनेन क्रियते ।

 सूतिकाविषये तु "विंशतिरात्रं पुत्रप्रसूर्मासेन स्त्रीजननी" इत्यनेन प्रतिपादितस्यानधिकारस्यात्र बाधः ।

 इयं वैधी शुद्धिः संकटविषये द्रष्टव्या ।

 रजोदर्शनादिसंभावनायां नान्दीश्राद्धस्यापकृष्यानुष्ठाने विधिः स्मृत्यन्तरे--

"एकविंशत्यहर्यज्ञे विवाहे दश वासराः ।
त्रिषट्चौलोपनयने नान्दीश्राद्धं विधीयते" इति ॥

 चौले त्रयो वासरा उपनयने षड्वासरा इत्यर्थः ।

इति रजोदोषनिर्णयः ।


अथ विवाह आशौचपाते निर्णयः ।

याज्ञवल्क्यः--

"दाने विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे ।
आपद्यपि च कष्टायां सद्यः शौचं विधीयते" इति ॥

 विष्णुः--

"व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ।
प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम्" इति ॥

 प्रारम्भशब्दार्थस्तु प्रागेवोक्तः ।

 विवाहे सद्यः शौचं केषामित्यपेक्षायां ब्रह्मपुराणे सद्यःशौचं प्रकृत्य--

"दातुः प्रतिग्रहीतुश्च कन्यादाने च नो भवेत् ।
विवाहयिष्णोः कन्याया ला[१]जहोमादिकर्मणि" इति ॥

 अत्र दातृप्रतिग्रहीतृग्रहणं संस्कार्यसंस्कारकयोरुपलक्षणम् । चकाराद्दातृपत्नीकन्ययोर्ग्रहणम् ।



  1. क. ख. ङ. लाजाहो ।