पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४९९

पुटमेतत् सुपुष्टितम्
[विवाहः]
४९५
संस्काररत्नमाला
( समानक्रियाविचारः )
 

 सारावल्याम्--

"फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने ।
भेदादब्दस्य कुर्वीत नर्तुत्रयविलङ्घनम्" इति ।

संकटे गर्गः--

"पुत्रीपरिणयादूर्ध्वं यावद्दिनचतुष्टयम् ।
पुत्र्यन्तरस्य कुर्वीत नोद्वाहमिति सूरयः" इति ।

 परिणयो विवाहः ।

 कपर्दिकारिकाऽपि--

"उद्वाह्य पुत्रीं न पिता विदध्यात्पुत्र्यन्तरस्योद्वहनं कदाऽपि ।
यावच्चतुर्थं दिनमत्र सर्वं समाप्य चान्योद्वहनं विदध्यात्" इति ।

 अत्र चतुर्थदिने कश्यपः--

"मौञ्जीबन्धस्तथोद्वाहः षण्मासाभ्यन्तरेऽपि वा ।
पुत्र्युद्वाहं न कुर्वीत विभक्तानां न दोषकृत्" इति ।

 अत्रोत्तरत्र पुत्र्युद्वाहं न कुर्वीतेति श्रवणात्पूर्वत्रोद्वाहः पुत्रस्य द्रष्टव्यः । अत्रैवमर्थः--मौञ्जीबन्धस्तथोद्वाहः षण्मासाभ्यन्तरेऽपि कर्तव्यः, परं तु षण्मासाभ्यन्तरे पुत्रोद्वाहात्परं पुत्र्युद्वाहं न कुर्वीत, यदि विभक्ता भ्रातरस्तदा षण्मासाभ्यन्तरे पुत्रोद्वाहोत्तरं पुत्र्युद्वाहकरणे न दोष इति । एतच्चातिसंकटे द्रष्टव्यम् ।

 यत्तु ज्योतिर्निबन्धे मेधातिथिः--

"पृथङ्मातृजयोः कार्यो विवाहस्त्वेकवासरे ।
एकस्मिन्मण्डपे कार्यः पृथग्वेदिकयोस्तथा ।
पुष्पपट्टिकयोः कार्यं दर्शनं न शिरस्थयोः ।
भगिनीभ्यामुमाभ्यां च यावत्सप्तपदी भवेत्" इति,

 तत्कर्तृभेदाभिप्रायम् । कार्य इति कर्मप्रत्यये द्वाभ्यां त्रिभिरित्यन्वयसंभवात् । उदाहृतगर्गवाक्ययोः कपर्दिवाक्ये चैककर्तारं प्रति निषेधो ज्ञायते । कुर्यात्कुर्वीत न पिता विदध्यादितिशब्दैस्तथैव प्रतीतेः । अतश्च द्वाभ्यां कर्तृभ्यामेकस्मिन्नपि लग्न एकस्मिन्नपि गृहे भिन्नोदरयोर्विवाहः कार्यः । कर्तृभेदेनैव मण्डपप्रतिष्ठादिभेदः । एकः कर्ता तु दिनचतुष्टयेन पूर्वं विवाहं समाप्योत्तरं कुर्यात् । अतिसंकटे त्वेकस्मिन्नपि दिने मण्डपदेवताप्रतिष्ठाद्यभेदेऽपि गृहभेदेन वेति व्यवस्था बोध्या ।