पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५००

पुटमेतत् सुपुष्टितम्
४९६
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( समानक्रियाविचारः )
 

 तथा च वसिष्ठः--

"द्विशोभनं त्वेकगृहेऽपि नेष्टं शुभं तु पश्चान्नवभिर्दिनैस्तु ।
आवश्यकं शोमनमुत्सवो वा द्वारेऽथवाऽऽचार्यविभेदतो वा" इति ।

 अत्रोत्तरार्धं भिन्नोदरसाधारणं ज्ञेयम् ।

 चतुर्थदिनादर्वाग्विषये वसिष्ठः--

"एकलग्ने द्विलग्ने वा द्वे गृहे यत्र शोभने ।
तयोरेको विनष्टः स्याद्वर्धते न यथास्थितम्" इति ।

 यत्र गृहे द्वे शोभने द्वौ विवाहावित्यर्थ इति चिन्तामणौ ।

 अतिसंकट एकोदरयोरप्येकाहे कर्तव्यतोक्ता ज्योतिर्विवरणे--

"न प्रतिषिद्धं लग्नं संप्राप्ते संकटे महति ।
एकोदरसंभवयोरेकाहे भिन्नमण्डपे काले" इति ।

 यम[१]योस्तु विशेषः स्मृत्यन्तरे--

"एकस्मिन्वत्सरे चैव वासरे मण्डपे तथा ।
कर्तव्यं मङ्गलं स्वस्रोर्भ्रात्रोर्यमलजातयोः" इति ।

 गार्यः--

"एकस्मिन्वासरे प्राप्ते कुर्याद्यमलजातयोः ।
क्षौरं चैव विवाहं च मौञ्जीबन्धनमेव च" इति ।

 एतच्चाभ्यनुज्ञापरं न तु नियमविधिरिति द्रष्टव्यम् ।

इति समानक्रियाविचारः ।

अथ संक्षेपेण कन्यादातृनिर्णयः ।

 तत्र याज्ञवल्क्यः--

"पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ।
अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ ।
गम्यं त्वभावे दातॄणां कन्या कुर्यात्स्वयं वरम्" इति ।

 भ्राता कन्यायाः ।

 स च संस्कृतः ।

"असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
भगिन्यश्च निजादंशाद्दत्त्वांऽशं तु तुरीयकम्" इति तेनैवोक्तत्वात् ।



  1. क. ग. मलयो ।