यज्जातीया कन्या तज्जातीयस्य पुत्रस्य यावान्भागस्तस्य चतुर्थमंशं प्रत्येकं भगिनीभ्यो दत्त्वा ताः संस्कर्तव्या इत्यर्थः । भगिन्यश्चेत्यत्र चकारो भ्रातृभिः पूर्वसंस्कृतैरित्यस्यानुवृत्त्यर्थः । पूर्वसंस्कृतैरित्यनेनानुपनीतस्य भ्रातुरधिकारो व्यावर्त्यते ।
अत्र शूलपाणिः--पूर्वसंस्कृतैर्भ्रात्रादिभिः पितुरर्धं(र्थे) पैतृकादेव धनादसंस्कृता भ्रातरो जातकर्मादिसंस्कारैः संस्कार्याः । भगिन्योऽपि स्वाद्धनाच्चतुर्थभागं दत्त्वा तेनैव धनेन विवाहाख्यसंस्कारेण संस्कुर्यात् (स्कार्याः) [ इति ] ।
बृहस्पतिना तु--
"समांशा मातरस्त्वेषां तुरीयांशाश्च कन्यकाः" । |
इत्यनेन पितृधनाच्चतुर्थांशहरत्वमुक्तं तदपि संस्कारार्थमेव । चतुर्थांशेन विवाहासंभवे यावता धनेन संभवति तावद्देयम् ।
यथा देवलः--
"कन्याभ्यश्च पितृद्रव्याद्देयं वैवाहिकं वसु । |
स्ववित्तानुसारेणेत्याह विष्णुः--'अनूढानां तु कन्यानां स्ववित्तानुसारेण संस्कारं कुर्यात्' [१]इति । सकुल्यो दायादः । दायादेष्वपि संनिहित एवाधिकारी । प्रकृतिस्थः पातित्योन्मादादिदोषरहितः । अत्र प्रकृतिस्थग्रहणादप्रकृतिस्थेन पित्रादिना कृतमप्यकृतमेव ।
"स्वतन्त्रो यदि तत्कार्यं कुर्यादप्रकृतिं गतः । |
इत्यपरार्के नारदवचनात् । पितृत्वादिना स्वतन्त्रोऽपि सन्नप्रकृतिस्थत्वेन हेतुना परतन्त्रो यदि भवति तदा तत्कृतं वाग्दानादिकार्यमकृतमेव वेदितव्यं यदि तस्मिन्वरे पतनीयदोषा अचिकित्स्यरोगा वा भवेयुः । वरे पतनीयदोषाद्यभावे तु तथैवोपरितनं कर्म प्रकृतिस्थः कुर्यात् । यदा त्वप्रकृतिस्थदत्ताया विवाहसंस्कारो निर्व्यूढस्तदा प्रधानकर्मणो निष्पन्नत्वेनाधिकारिमात्रवैकल्यात्तत्रापि न सर्वात्मना प्रत्यावर्तनीया कन्या ।
एवं तर्ह्यनधिकारिणा कृतमप्यकृतमेवेत्येतद्विरुध्येतेति चेत्सत्यम् । तद्विरोध
- ↑ क. ग. ङ. इत्याह । स । ख. इति शूलपाणिः । स ।