स्थूलाक्षरैः युक्तः भागःपरिहाराय परिवेत्तृविवाह इव तां प्रत्याहृत्य पुनस्तस्मा एवाधिकारी दद्यात् । तत्र च पुनर्विवाहोऽपि परिवेत्तृविवाहवदेव ज्ञेय इति मदनपारिजाते । यदि तु सप्तपदीक्रमणान्तं जातं भवेत्तदाऽधिकारिदातृरूपाङ्गवैकल्येऽपि नाऽऽवृत्तिर्विवाहस्य । अङ्गानुरोधेन प्रधानावृत्तेरन्याय्यत्वादिति केचित् ।
नारदोऽपि दातॄनाह--
"पिता दद्यात्स्वयं कन्यां भ्राता वाऽनुमतेः पितुः । |
अत्र पितृग्रहणं पितामहोपलक्षणम् । अत्र पित्रभावे पितामहस्तदभावे भ्रातेत्येवं क्रमो द्रष्टव्यः । उदाहृतयाज्ञवल्क्यवचोनुरोधात् । सकुल्या दायादा बान्धवा मातृपक्षीयाः स्वजातयो ब्राह्मणादयः । यस्य वर्णस्य या कन्या तज्जातीया अधिकारिण इत्यर्थः ।
मदनपारिजाते कात्यायनः--
"स्वयमेवौरसीं दद्यात्पित्रभावे स्वबान्धवाः । |
ततोऽन्यामौरसीभिन्नाम् । धर्मजां नियोगात्क्षेत्रजां मातामहो माता मातुलो वा दद्यात् । तेनौरसीदाने पितृबन्धुषु सत्सु मातामहादीनां नाधिकारः ।
अस्यापवादस्तत्रैव--
"दीर्घप्रवासयुक्तेषु पौगण्डेषु च बन्धुषु । |
पौगण्डो व्यवहाराद्यसमर्थः । समये रजोदर्शनोचितसमयात्पूर्वकाले ।
मनुः-
"यदा तु नैव कश्चित्स्यात्कन्या राजानमाव्रजेत्" इति । |
उक्तसकलाधिकार्यभावे स्वयं वरयेत् ।
"गम्यं त्वभावे दातॄणां कन्या कुर्यात्स्वयं वरम्" इतिवचनात् । |
इति भारते सावित्र्युपाख्याने पित्रनुज्ञयाऽपि स्वयंवरणमुक्तं तत्क्षत्त्रियाधिकारत्वात्तद्विषयम् । गम्यं गमनार्हं सावर्ण्यादिगुणयुक्तमित्यर्थः ।