पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५०३

पुटमेतत् सुपुष्टितम्
[विवाहः]
४९९
संस्काररत्नमाला
( कन्यादातृनिर्णयः )
 

 अनाथायाः कन्याया धर्मार्थविवाहकरणं तत्फलं चोक्तं पुराणान्तरे--

"आत्मीकृत्य सुवर्णेन परकीयां तु कन्यकाम् ।
धर्म्येण विधिना दातुमसगोत्रोऽपि युज्यते ।
अनाथां कन्यकां दृष्ट्वा यो दद्यात्सदृशे वरे ।
द्विगुणं फलमाप्नोति कन्यादाने यदीरितम्" इति ॥

 अतोऽन्यदीया कन्याऽन्येनापि धर्मार्थं देया ।

 कन्याया रजःप्राप्त्यनन्तरं दाने दोषमाह शाट्यायनिः--

"माता च जनकश्चैव ज्येष्ठो भ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम्" इति ॥

मरीचिरपि--

"यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः ।
असंभाष्यो ह्यपाङ्क्तेयः स उक्तो वृषलीपतिः" इति ॥

हारीतोऽपि--

"पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया तत्पतिर्वृषलीपतिः" इति ॥

 असंस्कृताऽविवाहिता ।

तत्र प्रायश्चित्तपूर्वकं विवाहमाह शौनकः--

"कन्यामृतुमतीं शुद्धां कृत्वा निष्कृतिमात्मनः ।
पिता ऋतून्स्वपुत्र्यास्तु गणयेदादितः सुधीः ॥
दानावधि गृहे यत्नात्पालयेच्च रजोवतीम् ।
दद्यात्तदृतुसंख्या गाः शक्तः कन्यापिता यदि ॥
दातव्यैकाऽपि यत्नेन दाने तस्या यथाविधि ।
दद्याद्वा ब्राह्मणेष्वन्नमतिनिस्वः सदक्षिणम् ॥
तस्यातीतर्तुसंख्येषु वराय प्रतिपादयेत् ।
उपोष्य त्रिदिनं कन्या रात्रौ पीत्वा गवां पयः ॥
अदृष्टरजसे दद्यात्कन्यायै रत्नभूषणम् ।
तामुद्वहन्वरश्चापि कूश्माण्डैर्जुहुयाद्घृतम्" इति ॥

 निष्कृतिमात्मनः कृत्वा कन्यां चर्तुमतीं शुद्धां कृत्वा वराय प्रतिपादयेदित्यन्वयः । स्वपुत्र्याः स्वकन्यायाः । तस्याः कन्याया दाने कर्तव्ये यथाविधि गोदानविधिना शक्तेन तदृतुसंख्या गावो दातव्याः । अशक्तेन त्ववश्यमेकाऽपि गौर्गोदानविधिना देयेत्यर्थः । उपोष्येति श्लोकेन दृष्टरजस्कक