पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५०८

पुटमेतत् सुपुष्टितम्
५०४
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( दत्तापहारः )
 

तयोरनियतं प्रोक्तं वरणाद्दोषदर्शनात् ।
पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।
तेषां निष्ठा च विज्ञेया विद्वद्भिः सप्तमे पदे' इति ।

 अस्यार्थः--स्त्रीपुंसयोः संबन्धः संभोगस्तस्मात्प्राग्वरणं तदनन्तरं पाणिग्रहणं च भवति । एवं संबन्धस्त्रिलक्षणः । वरणं पाणिग्रहणमुपभोगश्चेति त्रीणि लक्षणानि यस्य स संबन्धस्त्रिलक्षणः । स्त्रीपुंसयोरित्यत्राचतुरेति सूत्रेणाकारान्तता । गान्धर्वादिषु नायं क्रमः । तयोः स्त्रीपुंसयोः कन्यावरयोरिति यावत् । अनियतमनियमः, वृतोऽपि न परिणीयते वाग्दत्ताऽपि न दीयत इत्येवंरूपः । तत्र हेतुः--वरणाद्दोषदर्शनादिति । वरणादूर्ध्वं कन्यावरयोरन्योन्यं दोषदर्शनात् । अनेन विवाहादूर्ध्वं नानियम इत्युक्तं भवति । तत्र नियमे हेतुमाह पाणिग्रहणिका मन्त्रा इति । तैर्मन्त्रैरुत्पादितसंस्कारयोर्न परित्याग इत्यर्थः । पाणिग्रहणमन्त्रोत्पाद्यसंस्कारावधिमाह-तेषामिति ।

 निष्ठा नियता स्थितिः ।

"वरणाद्ग्रहणं पाणेः संस्कारो ह्यग्निलक्षणः ।
तयोरनियतं प्रोक्तं वरणं दोषदर्शनात्" ।

 इति पाठे तु पाणेर्ग्रहणं यत्सोऽग्निलक्षणः संस्कारः, अग्निचिह्नितो होमादिनिष्पाद्यः संस्कारः । तयोर्वरणपाणिग्रहणयोर्मध्ये वरणमेव दोषदर्शनादनियतं, न पाणिग्रहणं, तस्मादर्वाक्पतित्वानुपपत्तेरित्यर्थः ।

 यमः--

"नोदकेन न वा वाचा कन्यायाः पतिरुच्यते ।
पाणिग्रहणसंस्कारात्पतिः स्यात्सप्तमे पदे" इति ।

 अनेन सप्तपद्याक्रमणात्प्राग्वरमरणे वैधव्यं नेति गम्यते ।

 उक्तं च वसिष्ठेन--

"अद्भिर्वाचा च दत्तायां म्रियते यदि वै वरः ।
न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा" इति ॥

 सा पितुरेव न प्रतिग्रहीतुरित्यर्थः । सा च देवराय प्रदेया । तदभावे तद्गोत्राय । तदभावेऽन्यस्मै । एतत्सर्वं देशाचारानुसारेण भवति ।

 बलादपहृतायां तु विशेषमाहतुर्यमवसिष्ठौ--

"बलादपत्दृता कन्या मन्त्रैर्यदि न संस्कृता ।
अन्यस्मै विधिवद्देया यथा कन्या तथैव सा" इति ॥