पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५०९

पुटमेतत् सुपुष्टितम्
[विवाहः]
५०५
संस्काररत्नमाला
( दत्तापहारनिर्णयः )
 

 देवलः--

"गान्धर्वादिविवाहेषु पुनर्वैवाहिको विधिः ।
कर्तव्यश्च त्रिभिर्वर्णैः समर्थेनाग्निसाक्षिकः" इति ॥

 गान्धर्वादिविवाहेष्वनुष्ठितमपि विवाहहोमपूर्वतनं विधिं पुनः कृत्वाऽग्निसाध्यं विवाहहोमादिकं कर्तव्यमित्यर्थः । होमादिसप्तपद्यन्ता मन्त्रा विवक्षिताः । तत्रैव भार्यात्वोत्पत्तेरिति माधवः ।

 बहुभ्यो वाग्दाने कात्यायनोक्तो विशेषो द्रष्टव्यः--

"अनेकेभ्यो हि दत्तायामनुढायां तु यत्र वै ।
वरागमश्च सर्वेषां लभेताऽऽदिवरस्तु ताम्" इति ॥

 सर्वेषां गुणवतां वराणामागमे सत्याद्य एव वरस्तां कन्यां लभेतेत्यर्थः । आद्यवरव्यतिरिक्तानां सर्वेषामागमे यो दूरादागतः स तां लभेत ।

 तथा च चन्द्रिकायाम्--

"पश्चाद्दूरादागतो यः स हि प्रतिलभेत ताम्" इति ।

 पश्चादाद्यवरलाभासंभवनिर्णयानन्तरं दूरस्थो वरस्तां कन्यां प्रतिलभेतेत्यर्थः । आद्यस्य दोषवत्त्वे परस्य गुणवत्त्वे परस्प्रा एव देया--

"कुलशीलविहीनस्य पश्चाद्धि पतितस्य च ।
अपस्मारिविधर्मस्य रोगिणां वेपधारिणाम् ॥
दत्तामपि हरेत्कन्यां सगोत्रोढां तथैव च" इति वसिष्ठोक्तेः ।
"दत्तामपि हरेत्पूर्वं श्रेयांश्चेद्वर आव्रजेत्" ।

 इति याज्ञवल्क्योक्तेश्च । पश्चाद्वाग्दानोत्तरं पतितस्येत्यर्थः[१] । सगोत्रोढा सप्रवरेणोढा ।

 वरणोत्तरं वरस्य देशान्तरगमने नारदः--

"प्रतिगृह्य तु यः कन्यां वरो देशान्तरं व्रजेत् ।
त्रीनृतून्समतिक्रम्य सा चान्यं वरयेद्वरम्" इति ॥

 प्रतिगृह्य वरयित्वेत्यर्थः ।

 शुल्कदातुर्देशान्तरगमने कात्यायनः--

"प्रदाय शुल्कं गच्छेद्यः कन्यायां स्त्रीधनं तथा ।
धार्या सा वर्षमेकं तु देयाऽन्यस्मै विधानतः" इति ॥

 शुल्कं कन्यामूल्यम् । स्त्रीधनं कन्याप्रीतये दत्तमलंकारद्रव्यादि ।



  1. ख ड. र्थः । वर ।