पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५१०

पुटमेतत् सुपुष्टितम्
५०६
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( दत्तापहारनिर्णयः )
 

 शुल्कदमरणे मनुवसिष्ठौ--

"कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्याऽनुमन्यते" इति ।

याज्ञवल्क्या--

"महादोषे तु विज्ञाते पूर्वं सप्तपदीविधेः ।
मरणं वा विजायेत देयाऽन्यस्मै न दोषभाक् ॥
बलादुद्वाहिता कन्या दातव्याऽन्यवराय च" इति ॥

 महादोषाः कारिकानिबन्धे--

"अन्धो मूकः क्रियाहीनश्चापस्मारी नपुंसकः।
दूरस्थः पतितः कुष्ठी दीर्घरोगी वरो न सन्" इति ॥

 दूरस्थोऽपि गुणवत्त्वेन बहुभिः परिज्ञातश्चेत्तदा न दूरस्थत्वं दोषः ।

 तदुक्तं स्मृत्यन्तरे--

"गुणवानिति विज्ञातो दूरस्थोऽपि हि सन्वरः" इति ।

 वसिष्ठः पाणिग्रहणोत्तरमप्यन्यस्मै देयेत्याह--

"पाणिग्रहे कृते कन्या केवलं मन्त्रसंस्कृता ।
सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति" इति ॥

 एतच्च कलौ निषिद्धम्--

"देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्वधः ।
अक्षतायाश्च कन्यायाः पुनर्दानं परस्य च" ॥

 इति कलिवर्ज्यप्रकरणे बृहन्नारदीयवचनात् । परस्य परस्मा इत्यर्थः । वाग्दानोत्तरं कन्यादोषोपलम्भे गृहीताया अपि त्याग उक्तो मनुना--

"विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम्" इति ।

 विगर्हितां दुष्टाम् ।

नारदः--

"नादुष्टां दूषयेत्कन्यां नादुष्टं दूषयेद्वरम् ।
दोषे सति न दोषः स्यादन्योन्यं त्यजतोर्द्वयोः" इति ॥

 कन्यादोषास्तेनैव दर्शिताः--

"दीर्घकुत्सितरोगार्ता व्यङ्गा संस्पृष्टमैथुना ।
धृष्टाऽन्याहितभावा च कन्या दुष्टा प्रकीर्तिता" इति ॥

 अन्यस्मिन्पुरुष आहितः कृतो भावोऽभिलाषो यया सा ।

 अदुष्टात्यागे दोषमाह याज्ञवल्क्यः--

"अदुष्टां च त्यजन्दण्ड्यो दूषयंस्तु मृषा शतम्" इति ।