पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५१२

पुटमेतत् सुपुष्टितम्
५०८
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( कन्यालक्षणानि )
 

 मनुरपि--

"महान्त्यपि समृद्धानि गोजाविधनधान्यतः ।
स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥
हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।
क्षयामयापस्मारीणि श्वित्रिकुष्ठिकुलानि च" इति ॥

 हीनक्रियं विहितक्रियाविरहितम् । इदमुपलक्षणं निषिद्धवर्जनस्य । निष्पुरुषं पुंस्प्रसवरहितम् । निश्छन्दो वेदाध्ययनरहितम् । रोमशं प्ररूढरोमसर्वाङ्गम् । अर्शसमित्यादिपदैस्तत्तद्रोगवन्ति कुलान्युच्यन्ते ।

 स्मृत्यन्तरे--

"कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥
शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः ।
गोभिरश्वैश्च यानैश्च कृप्या राजोपसेवया ॥
अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणा ।
कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः" इति ॥

 दारसंग्रहफलभूतसंततौ दोषानुवृत्तिपरिहारायैषा कुलपरीक्षा । "कुलानुरूपाः प्रजाः संभवन्ति" इति हारीतवचनात् ।

इति कुलपरीक्षा ।

अथ कन्यालक्षणानि ।

 तत्राऽऽपस्त[१]म्बबौधायनौ--

"बन्धुशीललक्षणसंपन्नामरोगामुपयच्छेत" इति ।

 अत्र संपन्नामिति प्रत्येकमभिसंबध्यते । बन्धुसंपन्ना प्रशस्ताभिजना । शीलसंपन्नाऽऽस्तिक्यादिगुणान्विता । लक्षणसंपन्ना गूढगुल्फत्वादिलक्षणयुक्ता । अरोगा क्षयापस्मारकुष्ठाद्यचिकित्स्यरोगरहिता । एतादृशीं कन्यामुपयच्छेतोद्वहेदिति सुदर्शनेन व्याख्यातम् ।

 प्रयोगपारिजाते शौनकोऽपि--

"लब्धाभ्यनुज्ञो गुरुतो द्विजो लक्षणसंयुताम् ।
बुद्धिशीलगुणोपेतां कन्यकामन्यगोत्रजाम् ॥
आत्मनोऽवरवर्षां च विवहेद्विधिपूर्वकम्" इति ।



  1. क. ख. स्तम्बः--ब ।