पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५१८

पुटमेतत् सुपुष्टितम्
५१४
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( परिवित्त्यादिस्वरूपम् )
 

 पुंस्त्वपरीक्षोक्ता नारदेन--

"यस्याप्सु प्लवते बीजं ह्रादि मूत्रं च फेनिलम् ।
पुमान्स्याल्लक्षणैरेतैर्विपरीतस्तु षण्ढकः" इति ।

 बीजं रेतः । ह्रादि ध्वनिमत् । फेनिलं फेनवत् ।

 परीक्षाकारणमपि तेनैवोक्तम्--

"अपत्यार्थं स्त्रियः सृष्टाः स्त्रीक्षेत्रं बीजमर्हति ।
क्षेत्रं हि बीजिने देयं नाबीजी क्षेत्रमर्हति" इति ।

 सामुद्रिकशास्त्रे--

"पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत् ।
आयुर्हीननराणां हि लक्षणैः किं प्रयोजनम्" इति ।

 एवमन्यान्यपि लक्षणानि सामुद्रिकतिलकादौ द्रष्टव्यानि ।

इति वरलक्षणम् ।

अथ परिवित्त्यादिस्वरूपं तत्प्रायश्चित्तं च ।

तत्र मनुः--

"परिवित्तिः परिवेत्ता यया च परिविन्दति ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः" इति ।

 यया कन्यया परिविन्दति पुरुषः सा कन्याऽपि नरकं यातीत्यर्थः । दातृयाजकपञ्चमा इत्यत्र दाता च याजकश्च दातृयाजकौ तौ पञ्चमौ पञ्चसंख्यापूरकौ येषां परिवित्तिपरवेत्तृकन्यानां ते दातृयाजकपञ्चमा इति समासः । दाता च याजकाश्च दातृयाजकाः । ते पञ्चसंख्यापूरका येषामित्येवं वा समासः । याजक ऋत्विक् । अथवा याजकश्चासौ पञ्चमश्च याजकपञ्चमः । दाता च याजकपञ्चमश्च दातृयाजकपञ्चमौ तौ येषु ते दातृयाजकपञ्चमाः । दातृयाजकौ सर्वेऽपि ते पूर्वोपात्ताश्च नरकं यान्ति गच्छन्तीत्यर्थः ।

 परिवित्त्यादिस्वरूपं तेनैवोक्तम्--

"दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः" इति ॥

 अत एव गर्गः--

"सोदर्ये तिष्ठति ज्येष्ठे न कुर्याद्दारसंग्रहम् ।
आवसथ्यं तथाऽऽधानं पतितस्त्वन्यथा भवेत्" इति ॥