पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५१९

पुटमेतत् सुपुष्टितम्
[विवाहः]
५१५
संस्काररत्नमाला
( परिवित्त्यादिस्वरूपम् )
 

 सोदर्ये ज्येष्ठेऽनूढे तिष्ठति सतीत्यर्थः ।

 तथा च [१] मनुः--

"अग्रजे ब्रह्मचर्यस्थे योऽनुजो दारसंग्रहम् ।
कुरुते परिवेत्ता स परिवित्तिस्तु पूर्वजः" इति ॥

 पितृव्यपुत्रभिन्नोदरादीनां न दोष इत्याह शातातपः--

"पितृव्यपुत्रसापत्नपरनारीसुतेषु च ।
ज्येष्ठेष्वपि च तिष्ठत्सु भ्रातॄणां तु कनीयसाम् ।
दाराग्निहोत्रसंयोगे न दोषः परिवेदने" इति ।

 सापत्नाः सापत्नमातृजाः । परनारीसुता व्यभिचारादुत्पन्ना दत्तकादयो वा ।

गौतमोऽपि--

"भिन्नोदरे दत्तके च पितृव्यतनयेऽग्रजे ।
दाराग्निहोत्रसंयोगे न दोषः परिवेदने" इति ॥

 इदमपि प्रथमविवाहाग्न्याधानादौ ।

 तथा च मण्डनः--

"दर्शेष्टिं पौर्णमासेष्टिं सोमेज्यामग्निसंग्रहम् ।
अग्निहोत्रं विवाहं च प्रयोगे प्रथमे स्थितम् ॥
न कुर्याज्जनके ज्येष्ठे सोदरे वाऽप्यकुर्वति" इति ।

 अनुज्ञयाऽऽधानं भवतीत्याह सुमन्तुः--

"तिष्ठेद्भ्राता यदि ज्येष्ठ आधानं नैव चाऽऽश्रयेत् ।
अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा" इति ॥

 आज्ञयाऽऽधानाद्येव भवति न विवाहः ।

 तदाह हारीतः--

"सोदराणां तु सर्वेषां परिवेत्ता कथं भवेत् ।
दारैस्तु परिविद्यन्ते नाग्निहोत्रेण नेज्यया" इति ॥

 दारैस्त्वित्यत्र तुशब्दोऽवधारणार्थः ।

 कन्याविषये गर्गः--

"एकमातृप्रसूतानां पुत्रिणीपरिवेदने ।
दोषः स्यात्सर्ववर्णेषु न दोषो भिन्नमातृषु" इति ॥



  1. अयं वृद्धमनुः स्यादित्यनुमीयते, एतदर्थकमनुवचनस्य पूर्वं लिखितत्वात् ।