हारीतेन ज्येष्ठस्याब्दव्रतमुक्त्वाऽन्योद्वाह एवोक्तः--
"ज्येष्ठस्य समाप्तेऽब्दे तां कन्यां ज्येष्ठायोपपादयेयुः, |
तस्मात्परिवेत्ता कृच्छ्रातिकृच्छ्रोत्तरं स्वोढां ज्येष्ठाय ब्रह्मचार्याहृतभैक्षवद्गुरुपरिभवपरिहारार्थं निवेद्य तेनानुज्ञातां तामेवोद्वहेदिति वासिष्ठार्थः । अत्रैवं व्यवस्था । संनिधावकामतः कृच्छ्रातिकृच्छ्रौ याज्ञवल्कीयं व्रतचतुष्टयं च वर्णशक्त्याद्यपेक्षया योजनीयम् । कामतः संनिधौ कन्यापित्राद्यनुज्ञातोद्वाहे तु मानवं त्रैमासिकमिति ।
यत्तु सुमन्तुः--
"परिवित्तिपरिवेत्तृकन्यादातृयाजकानां द्वादशरात्रं सक्तुप्रा- |
यत्तु यमः--
"कृच्छ्रौ द्वयोः पारिवेद्ये कन्यायाः कृच्छ्र एव च । |
इति तदज्ञानतः क्षत्त्रियविषयम् । द्वयोः परिवेत्तृपरिवित्त्योः प्रत्येकं द्वौ कृच्छ्रौ ।
अग्रेदिधिषूस्वरूपं देवलेनोक्तम्--
"ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । |
एतत्प्रायश्चित्तमाह वसिष्ठः--
- "अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत्तां चैवोपयच्छेद्दि-
- धिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्निविशेत्" इति ।
अग्रेदिधिषूपतिः प्राजापत्यं चरित्वा तामेव ज्येष्ठां पश्चादन्येनोढामुद्वहेत् । दिधिषूपतिस्तु कृच्छ्रातिकृच्छ्रौ च[१]रित्वा स्वोढां ज्येष्ठां कनीयस्याः पूर्वविवोढ्रे दत्त्वाऽन्यामुद्वहेदिति मिताक्षरायां कल्पतरौ च ।
व्याख्यान्तरमपि स्मृत्यसारे--
- "कनिष्ठापतिर्द्वादशरात्रं कृत्वा तां स्वोढामेव ज्येष्ठोद्वाहे जात उद्वहेत् ।
- ज्येष्ठापतिस्तु कृच्छ्रातिकृच्छ्रौ कृत्वा स्वोढां कनिष्ठापतये ब्रह्मचार्यात्दृत-
- भैक्षवन्निवेद्य तदनुज्ञातां तां ज्येष्ठामेवोद्वहेत्" इति ।
- ↑ ग. ङ. कृत्वा ।