पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५२३

पुटमेतत् सुपुष्टितम्
[विवाहः]
५१९
संस्काररत्नमाला
( कूटानि )
 

 अपरार्के तु--अग्रेदिधिषूपतिस्थाने दिधिषूपतिरिति पठितम् । दिधिषूपतिस्थाने त्वग्रेदिधिषूपतिरिति । तथा च प्रायश्चित्तविकल्पः ।

इति परिवित्त्यादिस्वरूपं तत्प्रायश्चित्तं च ।


अथ कूटानि ।

 तत्र मत्कृताः श्लोकाः--

कूटान्विचार्यैव कृतो विवाहः शुभदो भवेत् ।
अन्यथाऽनिष्टकृद्यस्मादतस्तान्वक्ष्यतेऽ(न्ब्रूमहेऽ)धुना ॥१॥
गजक्ष्मासंख्यकाः कूटा यद्यप्यृषिभिरीरिताः ।
तत्राप्यावश्यकाः कूटास्तैरेवाष्टौ प्रकीर्तिताः ॥ २ ॥

वर्णो वश्यं च नक्षत्रं योनिः खगगणौ तथा ।
राशिर्नाडीति कूटाः स्युर्बलिनोऽत्र यथोत्तरम् ॥ ३ ॥
गजक्ष्मोर्ध्वं गुणैकत्वं शुभकृत्स्याद्यथोत्तरम् ।
झषकर्कालयो विप्राः क्षत्त्रा अजमृगौ धनुः ॥ ४॥
वैश्या वृषाङ्गनानक्राः शूद्रा युग्मतुलाघटाः ।
वरो वर्णोत्तम इह भवेच्चेच्छुभदस्तथा ॥ ५ ॥
वर्णोत्तमा वरात्कन्या चेत्स्यादशुभदं तदा ।

नृराशेर्जलजा भक्ष्याः शेषा वश्या हरिं विना ॥ ६ ॥
सिंहस्य सर्वे वश्याः स्यू राशयो वृश्चिकं विना ।
नृराशेः कर्कमकरमीनसिंहा अरातयः ॥ ७ ॥
वश्यभक्ष्यादिकं सर्वं ज्ञेयं लोकप्रसिद्धितः ।



वधूभाद्वरभं गण्यं वरभात्कन्यकर्क्षकम् ॥ ८ ॥
कार्ये उभे नवहृते शेषा वह्नीषुपर्वताः ।
वसिष्ठात्रिप्रभृतिभिरनिष्टाः परिकीर्तिताः ॥ ९ ॥




अश्वेभमेषसर्पाहिश्वौत्वजाखुभुगुन्दुराः ।
उन्दुरो गौश्च महिषीपशुभुङ्महिषास्तथा ॥ १० ॥
व्याघ्रैणैणश्वकपयः सर्पार्यहिरिपू कपिः ।
सिंहाश्वसिंहा गौर्हस्तीत्यश्विभाद्योनयः स्मृताः ॥ ११