शेषेऽप्यस्ति विशेषः सोऽधुना सर्व उदीर्यते ।
वेदभेदा एकभस्य ज्योतिर्विद्भिरुदीरिताः ॥ २६ ॥
भिन्नर्क्षमेकराशि स्यादेकर्क्षं भिन्नराशिकम् ।
एकराश्यृक्षभिन्नाङ्घ्रि त्वेकराश्यृक्षपादकम् ॥ २७ ॥
अन्त्यं तु निन्दितं ज्ञेयमवशिष्टे शुभं भवेत् ।
समभं सत्यृतुगजे वृषकर्काङ्गनादि चेत् ॥ २८ ॥
यदि स्यात्षष्ठसहितं तदैतच्छुभदं स्मृतम् ।
वृषस्तु समभस्तस्मात्षष्ठी भ[१]वति वै तुला ॥ २९ ॥
तया तु सहितं ग्राह्यं तत्पत्योर्मित्रभावतः ।
अष्टमे सन्नसमभं तत्पत्योररिभावतः ॥ ३० ॥
द्विर्द्वादशे तु समभं द्वितीयसहितं यदि ।
तदा भवेच्छोभनदं विपरीतमसत्स्मृतम् ॥ ३१ ॥
विषमोऽप्यङ्गनायुक्तः सिंहः श्रेष्ठः प्रकीर्तितः ।
ज्येष्ठा मूलं हस्त आर्द्रा शततारा पुनर्वसू ॥ ३२ ॥
पूर्वा भाद्रोत्तरा(र)फल्गुन्यश्विन्यौ नाडिकाऽऽदिमा ।
पुष्यो मृगशिरश्चित्राऽनूराधा भरणी तथा ॥ ३३ ॥
धनिष्ठाऽऽद्या तथाऽऽषाढा पूर्वा फाल्गुनिका तथा ।
उत्तरा भाद्रकाश्चेति मध्यमा नाडिका स्मृता ॥ ३४ ॥
कृत्तिका रोहिणी स्वाती मघाऽऽश्लेषाविशाखिके ।
अन्त्याऽऽषाढा वैष्णवं च रेवतीत्यन्त्यनाडिका ॥ ३५
एकनाड्यां विवाहश्चेत्तदा मरणमीरितम् ।
वध्वा भवेद्यद्यलाभो वर्णैर्विप्रादिभिस्तदा ॥ ३६ ॥
पार्श्वनाड्यां प्रकर्तव्यं गोदादक्षिणदेशके ।
सर्वथा मध्यमा नाडी वर्जनीया विचक्षणैः ॥ ३७ ॥
बाणनन्दं द्विव्ययं तु ग्रहमैत्र्या शुभं स्मृतम् ।
षड्भिर्वश्यादिभिः प्रोक्तं शुभदं तु षडष्टकम् ॥ ३८ ॥
यदा वधूर्नरगणा वरो रक्षोगणो भवेत् ।
सत्योः सत्कूटमैत्र्योस्तन्मेलनं शुभदं तदा ॥ ३९ ॥