पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५३

पुटमेतत् सुपुष्टितम्
[अग्निमुखविधिः]
४९
संस्काररत्नमाला ।
(अग्न्यायतनदेशादि, अङ्गुलप्रमाणं च)
 

अथाग्निमुखविधिः ।

 तत्राग्न्यायतनदेशो गृह्ये--

"प्राचीनप्रवण उदीचीनप्रवणे प्रागुदक्प्रवणे समे वा
देश उद्धत्यावोक्ष्य" इति ।

 अस्यार्थः--प्राचीनप्रवणाद्यन्यतमे देश आयतनं विधाय तदभ्र्याऽन्येन वा खनित्रेणोद्धत्यावोक्षेत् । प्रवणः क्रमनिम्नः । समे वा देश इति सप्तमीनिर्देशेन देशव्यतिरिक्तस्यैव कस्यचित्पदार्थस्योद्धननादिक्रियाकर्मत्वे प्रदर्शिते तत्र स च कः पदार्थ इत्याकाङ्क्षायामायतनपदार्थस्य ग्रहणम् । ([]एतेन केवले देश एवोद्धननप्रोक्षणे उक्त्वा तत्र स्थण्डिलकरणमुक्तं तत्परास्तम् । )

 तत्प्रमाणं शुल्बसूत्रे--

"पिशीलमात्रा भवन्तीति धिष्णियानां विज्ञायते" इति ।

 पिशीलं षड्विधम् । अष्टादशाङ्गुलमेकं, विंशत्यङ्गुलं द्वितीयं, बाह्वोरन्तरालं तृतीयं, बद्धमुष्टी रत्निरिति चतुर्थं, चतुर्विंशत्यङ्गुलं पञ्चमं, षट्त्रिंशदङ्गुलं षष्ठम् । घिष्णियान्यग्न्यायतनानि । विज्ञायत इत्यत्र श्रुतिरिति शेषः ।

 अङ्गुलप्रमाणं बौधायनेनोक्तम्--

"अथाङ्गुलप्रमाणं चतुर्दशाणवश्चतुस्त्रिंशत्तिलाः
पृथुसंश्लिष्टा इत्यपरम्" इति ।

 सर्वप्रमाणशेषत्वादङ्गुलप्रमाणमुच्यत इति शेषः । अणुर्धान्यविशेषः । परस्परसंश्लिष्टाश्चतुर्दशाणवो यावत्प्रमाणं तावदङ्गुलप्रमाणमित्यर्थः । कोशसंस्थानवत्पृथुप्रदेशेन संश्लिष्टाश्चतुस्त्रिंशत्तिला अङ्गुलप्रमाणमित्यपरं मतमिति व्याख्यातमेतद्द्वारकानाथेन ।

 अणुशब्दप्रवृत्तिनिमित्तं कोश आह--

"व्रीहिभेदस्त्वणुः पुमान्" इति ।

 केचित्त्वङ्गुलप्रमाणमङ्गुष्ठपर्वमात्रं मध्याङ्गुलिमध्यमपर्वमात्रं वेत्याहुः । एतच्च प्रमाणं यजमानस्याध्वर्योर्वा ग्राह्यम् । "यजमानस्याध्वर्योर्वैष हि चेष्टानां कर्ता भवति" इति शुल्बसूत्रात् । अत्राध्वर्योरभावात्स्वस्यैव प्रमाणम् । साचार्ये कर्मणि पाक्षिकत्वेनाऽऽचार्यस्यापि प्रमाणं ग्रहीतुं शक्यं तस्याध्वर्युतुल्यत्वात् ।


  1. धनुश्चिह्नान्तर्गत क. ख. पुस्तकयोर्नास्ति ।