५२२
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
यदा रक्षोगणा स्त्री स्यात्पुमान्नरगणस्त[१]दा ।
शु[२]भवश्यादिकैः षड्भिर्नृदूरमधुनोच्यते ॥ ४० ॥
स्त्रीभात्पुरुषनक्षत्रं समीपे स्यात्तदा न सत् ।
खेटोडुमैत्र्योः शुभकृदेतदेव प्रकीर्तितम् ॥ ४१ ॥
द्व्यर्के ताम्रं सुवर्णं च गौर्वृषश्च षडष्टके ।
बाणाङ्के रौप्यकांस्ये तु नाड्येकत्वे गवादिकम् ॥ ४२ ॥
नुः श्रेष्ठ्ये वर्णयोरैक्ये गुणस्तत्रैक उच्यते ।
पुरुषस्य कनिष्ठत्वे गुणाभावः समीरितः ॥ ४३ ॥
वश्यभक्ष्ये त्वर्धगुणो जात्या ज्ञेया तु भक्ष्यता ।
गुणद्वयं मिथो मैत्र्ये वैरभक्ष्ये गुणो नहि ॥ ४४ ॥
अरिवश्ये गुणस्त्वेको मनुष्याणामली रिपुः ।
लोकप्रसिद्धितः सिंहस्याप्येष रिपुरीरितः ॥ ४५ ॥
भवेदुभयतः सद्भं तदा ज्ञेयास्त्रयो गुणाः ।
एकतश्चेत्तदा त्र्यर्धं ताराभावे गुणो नहि ॥ ४६ ॥
योनिकूटेऽतिसुहृदोर्गुणाश्चत्वार ईरिताः ।
मित्रयोस्तु त्रयः प्रोक्ताः स्वभावे द्वौ गुणौ स्मृतौ ॥ ४७ ॥
समयोर्गुण एकः स्यान्महद्वै(हावै)रे गुणो नहि ।
सिंहेभयोर्महद्वैरं तथा बभ्रुद्विजिह्वयोः ॥ ४८ ॥
गोव्याघ्रयोर्मृगशुनोरोतून्दुरुकयोस्तथा ।
अजकप्योरश्वकाल्योः स्वभावगुणमीरितम् ॥ ४९ ॥
कदाचिदेकयोनिष्वप्यरित्वं स्यात्परस्परम् ।
गजयोः सिंहयोरोत्वोः शुनोर्मूषकयोरपि ॥ ५० ॥
एवमूह्यं मैत्र्यमपि लोकरीत्या विचक्षणैः[३] ।
ऐकाधिपत्ये मैत्र्ये च मिथः पञ्च गुणा इह ॥ ५१ ॥
चत्वारः सममैत्रे स्युर्द्वयोः साम्ये गुणास्त्रयः ।
मित्रवैरे गुणश्चैकः समवैरे गुणार्धकम् ॥ ५२ ॥
परस्परं खेटवैरं गुणाभावं विनिर्दिशेत् ।
ना देवो मनुजा स्त्री स्यात्संग्राह्यास्तत्र षड्गुणाः ॥ ५३ ॥
|
- ↑ ङ. स्तथा । शु ।
- ↑ ग. शुभं व ।
- ↑ ख. ग. ङ. णैः । एका ।