पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५३१

पुटमेतत् सुपुष्टितम्
[विवाहः]
५२३
संस्काररत्नमाला
( जन्मराशिनामराश्योर्निर्णयः )
 

वैपरीत्ये पञ्च गुणा गणसाम्ये तु षड्गुणाः ।
दैत्यो ना देवता स्त्री चेत्तत्रैको गुण ईरितः ॥ ५४ ॥
अवशिष्टे गुणाभावो वसिष्ठाद्यैः प्रकीर्तितः ।
दुष्कूटे चेद्योनिमैत्रं स्त्रीदूरं स्यात्तदाऽब्धयः ॥ ५५ ॥
एतद्द्वयं न चेत्तत्र गुणाभावः प्रकीर्तितः ।
अनयोर्मध्य एकं स्यात्तदैको गुण इष्यते ॥ ५६ ॥
भैकपादे गुणाभावो ज्योतिर्विद्भिरिहोदितः ।
सति नक्षत्रकूटे तु वरदूरं भयोनिजम् ॥ ५७ ॥
वैरं च स्यात्तदा ज्ञेया गुणा रसमिता बुधैः ।
नक्षत्रैक्ये भिन्नराशौ गुणाः पञ्च प्रकीर्तिताः ॥ ५८ ॥
अवशिष्टे सुकूटे तु ग्राह्याः सप्त गुणा बुधैः ।
नाडीभेदे गुणा अष्टावनुक्ते तु गुणो नहि ॥
संक्षेपेण मयोक्तानि कूटान्यष्टौ यथामति ॥ ५९ ॥

इति कूटानि ।

अथ जन्मराशिनामराश्योर्निर्णयः ।

ज्योतिर्निबन्धे--

"विवाहे सर्वमाङ्गल्ये यात्रादौ ग्रहगोचरे ।
जन्मराशेः प्रधानत्वं नामराशिं न चिन्तयेत् ।
देशे ग्रामे गृहे युद्धे सेवायां व्यवहारके ।
नामराशेः प्रधानत्वं जन्मराशिं न चिन्तयेत् ।
काकिण्यां वर्गशुद्धौ च दाने द्यूते ज्वरोदये ।
[१]न्त्रे पुनर्भूवरणे नामराशेः प्रधानता" इति ।

 यदि वधूवरयोर्मध्य एकस्य जन्मर्क्षं ज्ञातमेकस्य न ज्ञातं तदा शुद्धिमेलनादिकं कथमवलोकनीयमित्याकाङ्क्षायां शार्ङ्गधरीये--

"विवाहघटनं चैव लग्नजं ग्रहजं बलम् ।
नामर्क्षाच्चिन्तयेत्सर्वं जन्म न ज्ञायते यदि" इति ।

 नामाद्याक्षरसिद्धं यदृक्षं नक्षत्रं तस्मादित्यर्थः । नामाद्याक्षरेण नक्षत्रपरिज्ञानं तु वक्ष्यमाणावकहडाचक्रादिति ज्ञेयम् ।



  1. ग. मैत्रे