पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५३९

पुटमेतत् सुपुष्टितम्
[विवाहः]
५३१
संस्काररत्नमाला
( वाग्दानप्रयोगः )
 

 ततो वरपिता कन्यायाः पुरोभागे प्रत्यङ्मुख उपविश्य कन्यापित्रादिसमीपे गणपत्यादिस्मरणपूर्वकममुकप्रवरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकशर्मणे वराय, अमुकप्रवरान्वितामुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकपुत्रीममुकनाम्नीं कन्यां भार्यात्वाय वृणीमह इति कन्यापितरं प्रति वदेत् ।

 दाता भार्येष्टबन्ध्वाद्यनुमतिं गृहीत्वा पूर्वोक्तमनूद्याननूद्य वा वृणीध्वमिति वदेत् । एवं पुनर्द्विः । ततः प्रदास्यामीति दातोच्चैस्त्रिर्वदेत् ।

 ततो वरपिता कन्याञ्जलिं कुङ्कुमगन्धेनानुलिप्येष्टबन्ध्वादिभ्यः प्रार्थयेत् । ते च महालक्ष्मीरियमिति ब्रूयुः ।

 ततो वरपिता कन्याभालं चन्दनेनानुलिप्य स्वपक्षीयसुवासिनीभिर्नीराजनं कारयेत् ।

 ततस्तण्डुलाक्षतांस्तस्या भाले संयोज्य युवं वस्त्राणीति वस्त्राणि दत्त्वाऽग्ने रेतश्चन्द्र हिरण्यमिति भूषणानि दद्यात् ।

 ततो याः फलिनीरिति फलैः संपूज्य तस्या हस्ते फलताम्बूलादि दत्त्वा सुमुखश्चेत्यादिदेशकालसंकीर्तनान्ते कन्यापूजनं करिष्य इति संकल्पं कुर्यादिति शिष्टाः । नैव संकल्प इति तु युक्तम् ।

 कन्यापितुस्तु कन्याया वाग्दानमहं करिष्य इति संकल्पः । नायमपि संकल्प इति तु युक्तम् ।

 तत उभौ गणपतिपूजनं यथाचारं कलशे वरुणपूजनं च कुर्यातां विसर्जनं च । अत्राऽऽचारश्चेत्स्वस्तिवाचनमपि ।

 ततो वरपिता कन्याया दक्षिणत उदङ्मुखो वामतः प्राङ्मुखो वोपविश्य कन्यां गन्धाक्षतपुष्पवस्त्रादिभिः पूजयेत् ।

 ततः कन्यादाता वरपितरं प्राङ्मुखमुपवेश्य स्वयं तस्य पुरतः प्रत्यङ्मुख उपविश्य तं गन्धताम्बूलादिभिः पूजयेत् । स च दातारम् ।

 ततो दाताऽऽचाराद्धरिद्राख[]ण्डं गन्धाक्षतयुतानि पञ्च दृढानि पूगीफलानि च गृहीत्वाऽमुकप्रवरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकशर्मणे वराय,अमुकप्रवरान्वितामुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकस्य मम पुत्रीममुकनाम्नीं कन्यां ज्योतिर्विदादिष्टे मुहूर्ते दास्य इति वाचा संप्रदद इत्युक्त्वा,--



  1. ङ. खण्डग ।