पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५४०

पुटमेतत् सुपुष्टितम्
५३२
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( वाग्दानप्रयोगः )
 

"अव्यङ्गेऽपतितेऽक्लीबे दशदोषविवर्जिते ।
इमां कन्यां प्रदास्यामि देवाग्निद्विजसंनिधौ" ।

 इति वरपित्रादिवस्त्रप्रान्ते निक्षिप्य नर्य प्रजामिति प्रतिष्ठापनमन्त्रेण वस्त्रप्रान्ते बद्ध्वा ग्रन्थिं चन्दनेन चर्चयेदित्याचारप्राप्तम् । पितामहकर्तृके वाग्दाने पौत्रीमित्यतः पूर्वमेव ममेति वदेत् । एवं सकुल्यत्वेन प्रपितामहकर्तृके प्रपौत्रीमित्यतः पूर्वं ममेति । भ्रात्रादिकर्तृके तु ममेति नैव कुत्रापि ।

 ततो हरिद्राखण्डं गन्धाक्षतयुतानि पञ्च दृढपूगीफलानि च तथैव वरपित्रादिर्गृहीत्वाऽमुकप्रवरान्वितामुकगोत्रोत्पन्नामुकशर्मवरविषये भवन्तो नि[१]श्चिता भवन्तु, इति कन्यापित्रादिवस्त्रप्रान्ते पूर्ववत्प्रक्षिप्य ग्रन्थिं चन्दनेन चर्चयेत् । ततो दाता--

"वाचा दत्ता मया कन्या पुत्रार्थं स्वीकृता त्वया । कन्यावलोकनविधौ निश्चि[२]तस्त्वं सुखी भव" ।

 इति वरपितरं प्रति वदेत् ।

"वाचा दत्ता त्वया कन्या पुत्रार्थं स्वीकृता मया ।
वरावलोकनविधौ निश्चि[३]तस्त्वं सुखी भव" ।

 इति वरपिता कन्यापितरं प्रति वदेत् । पौत्रादिविवाहे पौत्रार्थं भ्रात्रर्थं मित्रार्थं सकुल्यार्थमित्युभयत्र यथायथमूहः । अथवा वरार्थं स्वीकृतेत्येव सर्वत्र ।

 ततो ब्राह्मणाः शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु । एतद्वः सत्यमस्त्विति वदेयुः ।

 ततो दाता विवाहसौभाग्याद्यभिवृद्ध्यर्थं शचीपूजनं कारयेत् । संकल्पमप्यत्रेच्छन्ति केचित् ।

"सुवर्णां पद्मपत्राक्षीं दिव्यस्रग्वस्त्रशोभिताम् ।
सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम् ।
अनर्घ्यमणिमालाभिर्भासयन्तीं दिगन्तरम् ।
विलासिनीसहस्रौघैः सेव्यमानामहर्निशम्" ।

 इतीन्द्राणीं ध्यात्वा सिततण्डुलपुञ्ज आवाहनाद्युपचारैः पूजनं वध्वा कारयेत् ।

 ततः--

"देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रियभामिनि ।
विवाहं भाग्यमारोग्यं पुत्रलाभं च देहि मे" इति प्रार्थनां कारयेत् ।



  1. ख. निश्चिन्ता ।
  2. क. ख. ङ. श्चिन्तस्त्वं ।
  3. क. ख. ङ. श्चिन्तस्त्वं ।