पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५४१

पुटमेतत् सुपुष्टितम्
[विवाहः]
५३३
संस्काररत्नमाला
( वरस्य वधूगृहं प्रति गमनम् )
 

 ततः पुरन्ध्रीभिर्नीराजनादिमाङ्गलिकं कार्यम् । विप्राश्च गन्धताम्बूलादिभिः पूजिता आशीर्मन्त्रान्पठेयुः । ते च--ॐ समिद्धस्य श्रय० महते सौभगाय । ॐ वनस्पते शतवल्शो० य महते सौभगाय २ ॐ संदिव्ये नदी०ष्ट महते सौभगाय ३ ॐ नर्य प्रजां मे० ष्ठिताम् । ॐ तदस्तु मित्रा० सादनाय । ॐ गृहा वै प्रतिष्ठा सूक्तं तत्प्रति०" इति च पठेत् ।

इति वाग्दानप्रयोगः ।

अथ वरस्य वधूगृहं प्रति गमनम् ।

 तद्विधिः शौनकेनोक्तः--

"पुण्ये मुहूर्ते कुर्वीत विवाहं विधिवद्द्विजः ।
तत्राऽऽभ्युदयिकं श्राद्धं कुर्यात्स्वस्ति च वाचयेत् ।
अपरेद्युः कृतस्नानो धृतधौताम्बरो वरः ।
भूषितो गन्धमाल्याद्यैः शकुनेन समन्वितः ।
ब्राह्मणान्भोजयित्वाऽन्ते कृतपुण्याहवाचनः ।
कृतकौतुकबन्धश्च मित्रबन्ध्वादिसंयुतः ।
यानं यथार्हमारुह्य गन्तव्यं च वधूगृहम् ।
तस्य द्वाराद्बहिः स्थित्वा प्राङ्मुखोऽभिमुखागतैः ।

 तस्य वधूगृहस्य ।

गृहीतपूर्णकुम्भादिपाणिभिर्वनिताजनैः ।
कृताभ्युद्गमनो गेहं प्रविशेत्सह बन्धुभिः" इति ।

 आभ्युदयिकं श्राद्धं कुर्यात् । स्वस्ति वाचयेदित्यत्रान्तर्भावितो णिज्ज्ञेयः । अन्यथा नान्दीश्राद्धं पिता कुर्यादित्यनेन विरोधापत्तेः ।

 नान्दीश्राद्धं पिता कुर्यादित्यत्र नान्दीश्राद्धग्रहणं स्वस्तिवाचनादेरुपलक्षणम् । तथैव शिष्टसमाचारात् । नान्दीश्राद्धमात्रं पितृकर्तृकं स्वस्तिवाचनं तु वरकर्तृकमेवेत्यस्मिन्मत आभ्युदयिकं श्राद्धं कुर्यादित्येकत्रैव णिज्ज्ञेयः । कृतपुण्याहवाचन इतिवचनाद्वधूगृहगमनकाले वरेण पञ्चवाक्यैः पुण्याहवाचनं कार्यमिति केचित् । अनुवादोऽयमित्यन्ये ।

इति वरस्य वधूगृहं प्रति गमनम् ।