पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५४३

पुटमेतत् सुपुष्टितम्
[विवाहः]
५३५
संस्काररत्नमाला
( लग्नघटीस्थापनम् )
 

 स्मृतिरत्नाकरे शाकलः--

"परिरक्षन्ब्रह्मचर्यं सह शय्यासनाशनैः ।
वध्वा सह वसेत्तत्र यावद्दिनचतुष्टयम्" इति ॥

 संग्रहे--

"एकासनं चैकशय्या एकपात्रे च भोजनम् ।
एकत्र मङ्गलं स्नानमेकवाहनरोहणम् ॥
कुर्वन्विवाह एतानि भवेद्विप्रो न दोषभाक्" इति ।

 विप्रग्रहणं क्षत्रियवैश्ययोरुपलक्षणम् ।

 अत्राहतवस्त्रे विशेषमाह कश्यपः--

"अहतं यन्त्रनिर्मुक्तं वासः प्रोक्तं स्वयंभुवा ।
शस्तं तन्माङ्गलिक्येषु तावत्कालं न सर्वदा" इति ॥

अथ लग्नघटीस्थापनम् ।

"प्रागुदक्प्रवणे देशे गोमयेनोपलेपिते ।
मृन्मयं कुण्डिकायुग्मं स्थापयेदव्रणं शुभम् ॥
कुङ्कुमाक्तेन सूत्रेण परिवेष्ट्य परस्परम् ।
स्वच्छेन वारिणा पूर्णं तण्डुलानामथोपरि ॥
निश्चले सलिले पश्चात्कुडिकायां जलोपरि ।
स्थापयेद्धटिकायन्त्रं सूर्यबिम्बानुदर्शनात्" इति ॥

 घटिकालक्षणमाह वामनः--

"दशपलसिद्धकमले सुसूक्ष्मान्ते पडङ्गुलोच्छ्राये ।
द्वादशाङ्गुलपरिणाहे षष्ट्या पलैः पूरिता घटिका ॥
चतुरङ्गुलशलाकावृत्तं कुर्यात्सुवर्णपादेन ।
तत्परिमित्या छिद्रे तलस्थिते शोभना घटिका" इति ॥

 सुसूक्ष्मोऽन्तो यस्य तत् । षोडशमाषपरिमितं सुवर्णं तस्य पादश्चतुर्थांशो माषचतुष्टयपरिमितः ।

 नारदोऽपि--

"षडङ्गुलमितोत्सेधं द्वादशाङ्गुलमायतम् ।
कुर्यात्कमलवत्ताम्रपात्रं तद्दशभिः पलैः ॥
माषत्रयत्र्यंशयुतस्वर्णवृत्तशलाकया ।
वेदाङ्गुलैः संमितया तया विद्धमतिस्फुटम्" इति ॥