पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५४४

पुटमेतत् सुपुष्टितम्
५३६
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( घटीयन्त्रभ्रमणफलम् )
 

"ताम्रपात्रे वारिपूर्णे मृत्पात्रेऽप्यथवा शुभे ।
मण्डलार्धोदयं वीक्ष्य रवेस्तत्र विनिक्षिपेत्" इति[च] । तत्र जले।
"मुख्यं त्वमसि यन्त्राणां ब्रह्मणा निर्मितं पुरा ।
भावाभावाय दंपत्योः कालसाधनकारणम्" ॥

 इति घटिकापात्रनिक्षेपणमन्त्रः ।

इति घटिकास्थापनम् ।


अथ घटीयन्त्रभ्रमणफलम् ।

 ज्योतिर्निबन्धे--

"यद्रूपं प्रथमं करोति घटिका पूर्वादिदिक्षु क्रमा-
त्सौभाग्यं निधनं यशोविरहितं युक्तं च रोगैः क्रमात् ।
कन्या वल्लभतामुपैति नियतं या निश्चला सर्वदा
स्यात्साध्वी सुतवित्तबन्धुसहिता नन्दत्यलं भूतले" इति ॥

 ग्रन्थान्तरे--

"प्रार्थिता सा घटी तोये यां दिशं प्रति गच्छति ।
पूर्वाशादिफलं कुर्यात्स्थिता मध्ये धनप्रदा ॥
सौभाग्यं निधनं नार्या अपमृत्युरुजान्विता ।
भर्तुः प्रिया च वश्या च मान्या वित्तसुखान्विता" इति ॥

 प्रार्थिता मुख्यं त्वमसि यन्त्राणामिति मन्त्रेण प्रार्थिता ।

 अन्यच्च--

"उत्तरेशानपूर्वासु घटी पूर्णा शुभप्रदा ।
दिक्षु शेषासु कन्याया मग्ना वैधव्यदायिनी" इति ॥

 सप्तर्षिमते विवाहपटले--

प्रपूजयेद्दैवविदं स्वशक्त्या गन्धादिपुष्पाम्बरदक्षिणाभिः ।
संपूजिते दैवविदि प्रतुष्टे तुष्यन्ति सर्वा ग्रहदेवताश्च" इति ॥

 दैवविल्लग्नप्रदाता ।

 तल्लक्षणं व्यतिरेकेणाऽऽह संवर्तः--

"अन्धः श्वित्री च कुनखी हीनाङ्गः पङ्गुरेव च ।
लग्नप्रदो भवेद्यत्र कुलक्षयकरं हि तत्" इति ॥

 यत्र लग्नप्रदाने । तल्लग्नप्रदानम् ।

 लग्नकाललक्षणमुक्तं नारदेन--

"स्वस्थे नरे सुखासीने यावत्स्पन्दति लोचनम् ।
तस्य त्रिंशक्षमो भागस्तत्परः परिकीर्तितः ॥