पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५५

पुटमेतत् सुपुष्टितम्
[अग्निमुखविधिः]
५१
संस्काररत्नमाला ।
(अरत्निप्रमाणं, सिकतालक्षणप्रमाणे)
 

 अत्रोक्तस्य प्रमाणद्वयस्य होमानुसारेण व्यवस्था ज्ञेया ।

  संग्रहेऽपि--

"चतुरश्रं च[१] सुश्लक्ष्णं तुल्यं सूत्रेण साधयेत् ।
समं वेदाङ्गुलोच्छ्रायं प्रागुदक्प्रवणं भवेत् ।
अधिकं वेषुमात्रं वा कुर्याद्धोमानुसारतः" इति ।

 परिधित इषुमात्रं न तु सर्वत इति ज्ञेयम् । अष्टादशाङ्गुलाष्टादशाङ्गुलात्मकचतुर्ज्यं कर्तव्यमिति तात्पर्यार्थः ।

 इषुररत्नित्रयात्मकः-- "त्रिररत्निरिषुः स्मृतः"  इत्यापस्तम्बोक्तेः ।

 अरत्निप्रमाणं शुल्बसूत्रे--

"चतुर्विंशत्यङ्गुलयोऽरत्निस्तदर्धं प्रादेश इति क्लृप्तिः" इति ।

 एतत्सूत्रव्याख्याने सार्वत्रिकी चैषा क्लृप्तिरिति सुन्दरकरविन्दाभ्यां व्याख्यातम् । कूर्परमारभ्य कनिष्ठिकापर्यन्त आयामोऽरत्निरिति स्मृत्यन्तरे ।

 शतपथ इषुप्रमाणमन्यथोक्तम्-- "पञ्चप्रादेश इषुर्भवति" इति ।

 अस्मिन्कल्पे पञ्चदशाङ्गुलपञ्चदशाङ्गुलात्मकचतुर्ज्यं भवति ।

 सिकताप्रमाणं वर्णविशेषेणाऽऽकारविशेषश्च बौधायनसूत्रे--

 "पञ्चप्रस्थसिकताः शुचयः शुक्ला अनार्द्रा अरत्निमात्रं[२] समचतुरश्रं ब्राह्मणस्य रक्तवर्णं त्रिकोणं क्षत्त्रियस्य पीतवर्णं रथचक्रवद्वैश्यस्य प्राक्प्रवणमुदक्प्रवणं वा स्थण्डिलं करोति" इति ।

 सिकता मृत्पांसवः । पञ्चप्रस्थसिकता इति प्रमाणं हस्तमात्राभिप्रायम् । करणप्रकारमप्याह स एव--

"सिकताश्चतुरङ्गुलं प्राचीनमुच्छ्रयति पञ्चाङ्गु[३]लं पश्चादूर्ध्वाङ्गुलिवि-
शेषं दक्षिणत ऊर्ध्वाङ्गुलि[४]प्रमाणमुत्तरतः" इति ।

 पश्चादित्यन्तं प्राक्प्रवणत्वपक्षे । ऊर्ध्वाङ्गुलिविशेषमित्याद्युदक्प्रवणत्वपक्षे । ऊर्ध्वाङ्गुलिप्रमाणस्य यावान्विशेषो भवति तावत्परिमितो दक्षिणत उच्छ्रायः । ऊर्ध्वाङ्गुलिप्र[५]माण उत्तरत उच्छ्राय इत्यर्थः ।


  1. ग. चतुःश्ल ।
  2. ग. घ. त्रं चतुरस्रं प्राक्प्रवणं स्थण्डिलं करोतीति । खादिरादिगृह्ये विशेष उक्तः--पञ्चप्रस्थसिकता अनार्द्रा अरत्निमात्रं स ।
  3. ग. घ. ङ्गुलप्रमाणं पश्चिमत उर्ध्वा ।
  4. ग. घ. लिविहीनमु
  5. ग. घ. लिविहीन उ ।