पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५५१

पुटमेतत् सुपुष्टितम्
[विवाहः]
५४३
संस्काररत्नमाला
( मधुपर्कः )
 

मवेक्ष्य, देवस्य त्वेत्यस्य वामदेवः सविता यजुः । मधुपर्कप्रतिग्रहे विनियोगः । 'ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि' इत्यर्चकेन निवेदितं मधुपर्कमञ्जलिना प्रतिगृह्णीयात् ।

 ततः--मधु वाता इति तृचस्य राहुगणो गौतमो विश्वे देवा गायत्री । मधुपर्कावेक्षणे विनियोगः । 'ॐ मधु वाता ऋतायते० भवन्तु नः ३' इत्यञ्जलिगतमधुपर्कपात्रस्थं मधुपर्कमवेक्षेत ।

 ततस्तत्पात्रं सव्यहस्ते धृत्वाऽङ्गुष्ठानामिकाभ्यां मधुपर्कं त्रिः प्रदक्षिणमालोड्य, वसवस्त्वेत्यादीनां वामदेव ऋषिः । वसवो रुद्रा आदित्या विश्वे देवाश्च क्रमेण देवता यजूंषि । निमार्जने विनियोगः । 'ॐ वसवस्त्वा गायत्रेण च्छन्दसा भक्षयन्तु ' [इति पुरस्तान्निमार्ष्टि । 'ॐ रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा भक्षयन्तु' [इति] दक्षिणतः । अत्रोदकस्पर्शे विकल्पः । 'ॐ आदित्यास्त्वा जागतेन च्छन्दसा भक्षयन्तु ' [इति] पश्चात् । ॐ विश्वे त्वा देवा आनुष्टुभेन च्छन्दसा भक्षयन्तु' [इति] उत्तरतः । ततः-- भूतेभ्यस्त्वेत्यस्य वामदेवो मधुपर्को यजुः । मधुपर्कग्रहणे विनियोगः । 'ॐ भूतेभ्यस्त्वा' [इति] मध्यात्किंचित्किंचिद्गृहीत्वा तूष्णीं त्रिरूर्ध्वं क्षिपेत् । प्रतिग्रहणं मन्त्रावृत्तिः । तूष्णीं ग्रहणं समन्त्रं क्षेपणमिति वा । अस्मिन्पक्षे क्षेपणे विनियोग इति विनियोगवाक्ये विशेषः ।

 ततो मधुपर्कपात्रं भूमौ निधाय मधुपर्कैकदेशं गृहीत्वा, विराजो दोहोऽसीत्यादिमन्त्रत्रयस्य वामदेवो मधुपर्को यजुः । मधुपर्कप्राशने विनियोगः । 'ॐ विराजो दोहोऽसि' [इति] प्रथमं प्राश्य लौकिकजलेनाऽऽचम्य पुनस्तथैव गृहीत्वा 'ॐ विराजो दोहमशीय' [इति] द्वितीयं प्राश्य लौकिकजलेनाऽऽचम्य पुनस्तथैव गृहीत्वा 'ॐ मयि दोहः पद्यायै विराजः' [इति] तृतीयं प्राश्य लौकिकजलेनाऽऽचम्य मधुपर्कशेषमुदङ्मुखो ब्राह्मणाय प्रयच्छेत् । लोकविद्विष्टत्वादिदानीमप्स्वेव क्षिपेत् । ततः--अमृतापिधानमसीत्यस्य वामदेवो जलं यजुः । जलपाने विनियोगः । 'ॐ अमृतापिधानमसि' इति पूर्वाचमनशिष्टा अपः किंचित्पीत्वा लौकिकजलेनाऽऽचम्याऽऽचमनीयशेषं सर्वं गृहीत्वा, सत्यं यश इत्यस्य वामदेवो जलं यजुः । जलपाने विनियोगः । 'ॐ सत्यं यशः श्रीर्मयि श्रीः श्रयताम्' इति सर्वं पीत्वा लौकिकजलेन द्विवारमाचमनं कुर्यात् ।

 ततोऽर्चको गौर्गौर्गौरिति गां त्रिर्निवेदयेत् । ततः पूज्यः--माता रुद्राणामित्यस्य भार्गवो जमदग्निर्गौस्त्रिष्टुप् । गोरुत्सर्जनाङ्गभूते जपे विनियोगः । 'ॐ माता रुद्राणां दुहिता० प्र नु वोचं० धिष्ट' इति जपित्वा 'ओमुत्सृजत' इत्युक्त्वा विसृजेत् ।