मङ्गलसूत्रम् । करकाणि मृन्मयपात्राणि । चकारात्सौभाग्यद्रव्याणि सुवासिनीभ्यो देयानीत्यर्थः ।
प्रयोगदर्पणे स्मृत्यन्तरे--
"स्वार्षगोत्रे समुत्कीर्त्य वरस्यापि तथैव च । |
स्मृत्यन्तरे तु--
"तिष्ठेदुदङ्मुखो दाता प्राङ्मुखस्तु वरो भवेत्" इत्युक्तम् । |
नात्र प्रतिग्रहमन्त्रः । अयज्ञसंबन्धित्वात् । तन्त्रसंबन्धिदक्षिणानामेव प्रतिग्रहः समन्त्रको नान्यासामिति दर्शितं चास्ति सूत्रकृता--
"तान्त्रीणां दक्षिणानां दर्शयति" इत्यनेन । तन्त्रं यागः । |
मनवे तल्पमिति प्रतिग्रहमन्त्रस्तु वाजपेये दासीप्रतिग्रह उपयुज्यते । तन्त्रसंबन्धित्वात् । न तु दैवे विवाहेऽप्युपयुज्यतेऽतन्त्रसंबन्धित्वात् । अत्रापि प्रतिपादयेदितिवचनसत्त्वे यन्मातृदत्तेन दैवे दक्षिणाभिः सह दत्तायां मनवे तल्पमिति प्रतिग्रह इत्युक्तम्, तदुत्तरग्रन्थविरुद्धमिति प्रतिभाति । न ममेत्यपि न भवति । धर्मसूत्रे प्रतिपादयेदिति वचनात् । एवं च--ॐ स्वस्तीति ॐ तथेति वेत्युक्त्वा प्रतिगृह्णीयात् ।
अथ प्रयोगः ।
कन्यादाता वरदत्तवस्त्राभरणादिरहितां स्वदेयवस्त्राभरणाद्यलंकृतां कृतपीतवस्त्रपरिधानां कन्यां वराय दद्यात् । अश्मानं नि[१]ष्काश्य पीठे कन्यामुपवेश्य वधूवरयोर्मध्यप्रदेशस्य दक्षिणत उदङ्मुख उपविश्य दक्षिणतः पत्नीमुपवेश्याऽऽचम्य पवित्रपाणिः प्राणानायम्य देशकालौ संकीर्त्यामुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादिकन्याप्रतिपादनकल्पोक्तफलावाप्तयेऽनेन वरेणास्यां कन्यायामुत्पादयि
- ↑ ग. निष्कास्य ।