त्यन्तं वारद्वयं पुनः कार्यम् । पितामहस्तु दानं कुर्वन्पौत्रीमित्यतः पूर्वं ममेति वदेत् । सकुल्यत्वेन प्रपितामहः कुर्वन्प्रपौत्रीमित्यतः पूर्वं ममेति वदेत् । भ्रात्रादिर्दानं कुर्वन्पुरुषत्रयसंकीर्तनमेव कुर्यात् । ममेति न क्वापि वदेत् । जननी चेद्दानं कुर्यात्तदा[ऽमुक]गोत्राऽमुकनाम्न्यहमिति विकारः । भर्तृगोत्रमेवेत्थं सा वदेन्न गोत्रोत्पन्नेति । पितृगोत्रं नैव वदेत् । मातामहमातुलादिः संबन्ध्यन्यो वा यः कश्चिद्ब्राह्मणो गोत्रान्तरीयः कन्यादानं कुर्वन्स्वगोत्रं स्वविशेषणत्वेन संकीर्त्यामुकशर्मणः कन्यापितुः समस्तपितॄणां निरतिशयेत्यादि वदेत् । आत्मनश्चेत्यत्र कन्यापितुश्चेति । जननी चेद्दानकर्त्री तदा मद्भर्तुः समस्तपितॄणां निरतिशयेत्यादि वदेत् । आत्मनश्चेत्यत्र मद्भर्तुश्चेति । आत्मनश्चेति द्वितीयाबहुवचनान्तमिति कल्पे कन्यापितॄंश्चेति कन्यापितरं चेति वा । अत्र कन्याविशेषणत्वेन कन्यापितृगोत्रसंकीर्तनमेव कार्यम् । अमुकस्य प्रपौत्रीमित्यादिषु कन्यापित्रादिनामान्युच्चारणीयानि । मम वंशकुले जातेति वक्ष्यमाणे श्लोकेऽपि ममेत्येतस्य स्थाने कन्यापितृनामैव षष्ठ्यन्तं वदेच्च ।
यदि दत्तकः कन्याया दानं कुर्यात्तदा प्रतिगृहीतो येन तद्गोत्रमेव स्वस्य कन्यायाश्च विशेषणत्वेन वदेत् । प्रतिग्रहीतृपितृतत्पितृपितामहानां नामानि कीर्तयेत् । दत्तकन्यादानेऽपि स्वगोत्रस्यैव कन्याविशेषणत्वेन संकीर्तनम् । श्लोके जातेत्यत्र दत्तेति वदेत् । एवं दत्तकवराय कन्यादानेऽपि येन प्रतिगृहीतस्तदीयमेव गोत्रादि ।
ततः--
"गौरीं कन्यामिमां विप्र यथाशक्ति विभूषिताम् । |
न्यूनवार्षिक्यां तु गौरीमित्यस्य पदस्य लोपः । मया कन्यामिमां विप्र यथाशक्तिविभूषितामित्येव वा प्रयोगः । पालिता वर्षसप्तकं पालितेयं षडब्दकमित्यूहश्च यथायथम् । नववार्षिक्यां तु गौरीमितिपदे रोहिणीमित्यूहेत्, रोहिणीं कन्यामिमां विप्रेति पालिता नववर्षकमिति च । दशवार्षिक्यां तु गौरीरोहिणीपदस्थाने कन्यामित्यूहेत्, कन्यां कन्यामिमां विप्रेति पालिता