पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५६३

पुटमेतत् सुपुष्टितम्
[विवाहः]
५५५
संस्काररत्नमाला
( कन्यादानोत्तरं कर्तव्यम् )
 

'ॐ देवस्य त्वा० णे हिमवतो हस्तिनं तेना०' इति गजस्य । 'ॐ प्रजापतये दासीं तया०' इति दास्याः । 'ॐ प्रजापतये दासं तेना०' इति दासस्य । 'ॐ मनवे तल्पं तेना०' इति शय्यायाः । '०क्षिणेऽप्सरोभ्योऽलंकरणं तेना०' इत्यलंकरणानाम् । प्रत्यलंकरणं मन्त्रावृत्तिः । '०णेऽग्नये हिरण्यं तेना०' इति हिरण्यस्य । सर्वत्र सावित्रान्वाधी[१](?) । सर्वेषां प्रजापतिर्ऋषिः सविता देवता यजुश्छन्दः । प्रतिग्रहणे विनियोग इत्यृष्यादि । महिषीदासीदासप्रतिग्रहणमन्त्राणां तु वामदेव ऋषिर्ज्ञेयः । उत्तानस्त्वेत्यवशिष्टानामप्राणिद्रव्याणां प्रतिग्रहणम् । अत्रापि सावित्रान्वाधीस्त इति केचित् । एतस्य प्रजापतिर्ऋषिः । आ[२]ङ्गीरसो देवता । यजुश्छन्दः । प्रतिग्रहे विनियोग इत्यृष्यादि द्रष्टव्यम् । प्रतिद्रव्यप्रतिग्रहं सप्तदशकृत्वोऽपाननम् । प्रतिगृह्णामीत्येव वा सर्वेषां प्रतिग्रहः । अस्मिन्पक्षे नापाननतृणप्रदाने । अत्रापि भवत इति केचित् ।

 ततः कन्यादाता कन्यादानकर्मणः साङ्गतासिद्ध्यर्थं यथाविभवं ब्राह्मणान्सुवासिनीश्च यथोपपन्नेनान्नेन भोजयित्वा भूयसीं ब्राह्मणेभ्यो गन्धादिपूजनपूर्वकं दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।

इति कन्यादानप्रयोगः ।

 अतः परं कर्तव्यमुक्तं स्मृतिसंग्रहे--

"अब्लिङ्गाभिर्ऋग्भिरपो युतं हेम्नाऽभिमन्त्र्य तत्
ताभिरासीनोऽभिषेकं दंपत्योर्द्विज आचरेत् ॥
आ नः प्रजामित्येताभिर्ऋग्भिश्चतसृभिस्ततः ।
समुद्रेति चतसृभिरापो हीति त्रिभिस्तथा ॥
दुग्धाक्तं श्वेतसूत्रं च कृत्वा द्विगुणमेव तत् ।
वरवध्वोः कण्ठदेशे कटिदेशे तथैव च ॥
प्रदक्षिणं पञ्चवारं चतुर्वारमथापि वा ।
ऐशानीं दिशमारभ्य अच्छिन्दन्वेष्टयेत्ततः ॥
यत्सूत्रं कण्ठदेशस्थमधो निष्काशयेत्तु तत् ।
रञ्जयित्वा कुङ्कुमेन कृष्णोर्णास्तुकया युतम् ॥
दृढं तु रजनीखण्डं बद्ध्वा सूत्रेण तेन तु ।
वधूवामप्रकोष्ठे तु बध्नीयात्सुदृढं वरः ॥



  1. क. धीस्त । स ।
  2. ग. ङ. आङ्गिर ।