पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५६५

पुटमेतत् सुपुष्टितम्
[विवाहः]
५५७
संस्काररत्नमाला
( अभिषेकादिप्रयोगः )
 

कृतवस्त्रपरीधानां संस्मरन्निष्टदेवताम् ।
सूत्रेण मङ्गलाख्येन कण्ठदेशे विभूषयेत् ॥
माङ्गल्यतन्तुनेत्येष मन्त्रोऽत्र कथितो बुधैः ।
इतरैर्भूषणैः पश्चात्तत्तदङ्गेषु भूषयेत् ॥
वधूवरौ प्रकुर्यातां गणेशस्य तु पूजनम् ।
सौभाग्याद्यभिवृद्ध्यर्थं महालक्ष्म्यास्तथैव च ॥
पार्वत्याश्च तथा शच्याः पूजनं तु समाचरेत् ।
सौभाग्यार्थं वायनानि प्रदद्यात्सुसमाहिता ॥
दिनत्रयं प्रकुर्यातां व्रतस्याऽऽचरणं ततः" इति ।

अथाभिषेकादिप्रयोगः ।

 पुरोधाः--आपो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । अबभिमन्त्रणे विनियोगः । "ॐ आपो हि ष्ठा मयोभुवः० चनः" इति स्वर्चितकलशस्थाः सुवर्णयुता अपोऽभिमन्त्र्य ताभिः सहिरण्यकुशदूर्वापल्लवाभिरभिषिञ्चेत् ।

 आ नः प्रजामितिचतसृणां सूर्यासावित्री सूर्यासावित्री । आद्ये द्वे जगत्यौ । अन्त्ये द्वे अनुष्टुभौ । समुद्रज्येष्ठा इति चतसृणां वसिष्ठ आपस्त्रिष्टुष् । आपो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । सर्वेषां वरवध्वोरभिषेके विनियोगः । "ॐ आ नः प्रजां जनयतु० वृषु" । "ॐ समुद्रज्येष्ठाः" "ॐ आपो हि ष्ठा०" इत्यभिषेकं कुर्यात् । वर एवाभिषेकं कुर्यादिति कश्चित् ।

 ततः पुरोधा दुग्धाक्तेन द्विगुणेन श्वेतसूत्रेण वधूवरयोः कण्ठदेश ऐशानीमारभ्य पञ्चवारं चतुर्वारं वा प्रदक्षिणं संवेष्ट्य वधूवरयोः कटिदेशे तथैव वेष्टयेत् ।

 तत्रैते शिष्टस्वीकृता मन्त्राः--"ॐ परि त्वा गिर्वणो गिर इ० ध्वमध्वरम्" इति । "ॐ महीनां पयोऽसि वि० यै दुग्धम्" इति याजुषो मन्त्रोऽपि पठनीयः ।

 ततः कण्ठदेशस्थं सूत्रमधो निष्काश्य कुङ्कुमाक्तं कृष्णोर्णास्तुकायुतं च कृत्वा तेन दृढं हरिद्राखण्डं बद्ध्वा तद्वधूवामप्रकोष्ठे वरो बध्नीयात्, नीललोहितमित्यस्य सूर्यासावित्री सूर्यासावित्र्यनुष्टुप् । हस्ते कङ्कणबन्धने विनियोगः । "ॐ नीललोहितं भ० बध्यते" इत्यनेन मन्त्रेण ।

 ततः कटिदेशस्थं सूत्रमुपरि निष्काश्य कुङ्कुमाक्तं कृष्णोर्णास्तुकायुतं च