पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५६६

पुटमेतत् सुपुष्टितम्
५५८
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( अक्षतारोपणम् )
 

कृत्वा तेन दृढं हरिद्राखण्डं बद्ध्वा वरस्य दक्षिणप्रकोष्ठे वधूर्बध्नीयात्तेनैव मन्त्रेण तूष्णीं वा ।

 अथ वधूवरौ परस्परमायुर्वर्धनकरमक्षतारोपणं कुर्याताम् । तद्यथा--तैजसे पात्र आनीते गव्ये क्षीरे किंचिद्घृतमासिच्य पात्रान्तर आर्द्राक्षतशुक्लशालितण्डुलानोप्य वरः क्षालिताञ्जलिः क्षालितवध्वञ्जलौ तेन घृतयुतक्षीरेण स्वहस्तद्वयाङ्गुलिभिर्द्विरुपस्तीर्य द्विवारं तथैव तण्डुलानोप्य तथैव क्षीरेण द्विरभिघारयेत् ।

 ततो वराञ्जलावप्येवं दाताऽन्यो वा कुर्यात् । ततो दातैव तदञ्जल्योः सुवर्णं निधाय वराञ्जलिवध्वञ्जली संयुतौ कृत्वा कन्या तारयतु[१] , पुण्यं वर्धतां, शान्तिः पुष्टिस्तुष्टिश्चास्तु, तिथिकरणमुहूर्तनक्षत्रसंपदस्तु, इति वाक्यानि पठेत् ।

 ततो वधूः-- 'ॐ भगो मे कामः समृध्यताम्' इत्यञ्जलिस्थानक्षतान्वरमूर्धन्यारोपयेत् । 'ॐ यज्ञो मे कामः समृध्यताम्' इति वरः स्वाञ्जलिस्थानक्षतान्वधूमूर्धनि । एवं द्वितीयं तृतीयं च । तत्र द्वितीये 'ॐ श्रियो मे कामः समृध्यताम्' इति वध्वा मन्त्रः । 'ॐ धर्मो मे कामः समृध्यताम्' इति वरस्य । तृतीये तु 'ॐ प्रजा मे कामः समृध्यताम्' इति वध्वा मन्त्रः । 'ॐ यशो मे कामः समृध्यताम्' इति वरस्येति विशेषः ।

 ततो वधूर्वराञ्जलिं द्विरुपस्तीर्य द्विस्तण्डुलैरापूर्य द्विरभिघारयेत् ।

 ततो दाताऽन्यो वा पूर्ववद्वध्वञ्जलिमापूरयेत् । ततो दातैव पूर्ववद्धिरण्यं निधाय वध्वञ्जलिं वराञ्जलौ निधाय पूर्ववद्वाक्यानि पठेत् ।

 ततो वरः-- 'ॐ यज्ञो मे कामः समृध्यताम्' इति वधूमूर्धन्यञ्जलिस्थानक्षतानारोपयेत् ।

 ततो वधूः-- 'ॐ भगो मे कामः समृध्यताम्' इति वरमूर्धन्यञ्जलिस्थानक्षतानारोपयेत् । एवं द्वितीयं तृतीयं च । तत्र द्वितीये धर्मो म इति वरस्य मन्त्रः । श्रियो म इति वध्वाः । तृतीये तु यशो म इति वरस्य । प्रजा म इति वध्वा इति विशेषः ।

 अथ वरो वध्वञ्जलिं पूर्ववदापूर्य दात्राऽन्येन वा स्वाञ्जलावापूरिते वधूमूर्धन्यञ्जलिस्थानक्षतांस्तूष्णीमारोपयेत् । तूष्णीं वरमूर्धनि वधूः । एवं सप्तवारमक्षतारोपणं कार्यं चतुर्वारं वा । केचिद्भगो म इत्यादीन्मन्त्रान्नेच्छन्ति । अस्मिन्पक्षे तूष्णीमेव सप्तवारं चतुर्वारं वाऽक्षतारोपणं भवति ।



  1. क. ग. तु, दक्षिणाः पान्तु, बहु देयं चास्तु, पु ।