पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५७१

पुटमेतत् सुपुष्टितम्
[विवाहहोमः]
५६३
संस्काररत्नमाला
( पाणिग्रहणे काम्यास्त्रयः पक्षः )
 

अथ पाणिग्रहणम् ।

 वरो ज्योतिर्विदादिष्टे सुमुहूर्तेऽपरेणाग्निं दर्भराशिद्वयं पूर्वापरमुदगग्रमास्तीर्य 'ॐ सरस्वति प्रेदमिव सुभगे वाजिनीवति । तां त्वा विश्वस्य भूतस्य प्रजायामस्यग्रतः । गृह्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथाऽसत् । भगो अर्यमा सविता पुरन्धिर्मह्यं त्वाऽदुर्गार्हपत्याय देवाः' इति द्वाभ्यां पूर्वदर्भराशाववस्थितः प्रत्यङ्मुखो वरोऽपरदर्भराशाववस्थितायाः प्राङ्मुख्या भार्याया हस्तं गृह्णीयात् । अथवा पूर्वदर्भराशाववस्थितायाः प्रत्यङ्मुख्या भार्याया अपरदर्भराशाववस्थितः प्राङ्मुखो वरो हस्तं गृह्णीयात् ।

अथ काम्यास्त्रयः पक्षाः ।

 यदि कामयेत पुमांसं जनयेयमित्यङ्गुष्ठसहितमेव हस्तं गृह्णीयात् । न त्वितराङ्गुलिग्रहणम् । यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलिसहितमेव हस्तं गृह्णीयात् । न त्वङ्गुष्ठग्रहणम् । यदि कामयेतोभयं जनयेयमिति, अभीव लोमान्यङ्गुष्ठं सहाङ्गुलीभिर्गृह्णीयात् । इति काम्यास्त्रयः पक्षाः । तृतीयः पक्षो नित्योऽपि ।

 ततस्तस्या भार्याया आत्मानमग्रेण स्थिताया दक्षिणमंसं धृत्वा प्रसव्यं स्वस्य दक्षिणतः प्रत्यङ्मुखी यथा स्यात्तथा प्रतिनिवर्त्य,

"ॐ अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । जीवसूर्वीरसूः स्योना शं न एधि द्विपदे शं चतुष्पदे । तां नः पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्या मुशन्तः प्रहरेम शेषम् । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽग्निष्टे पतिस्तुरीयोऽहं मनुष्यजाः । सोमोऽददाद्गन्धर्वाय गन्धर्वोऽग्नयेऽददात् । पशू श्च मह्यं पुत्रा श्चाग्निर्ददात्यथो त्वाम् । अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वम् । सामाहमृक्त्वं तावेहि संभवाव सह रेतो दधावहै । पु से पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेमां त्वमिन्द्र मीढ्वः सुपुत्रा सुभगां कुरु । दशास्यां पुत्राना धेहि पतिमेकादशं कुरु" ।

 इति षड्भिर्मन्त्रैस्तामभिमन्त्रयते । अथवा तामुत्तरेण गत्वा प्रसव्यमावृत्य तस्या दक्षिणोंऽसः स्वस्य समीपे यथा भवति तथा तस्याः पश्चाद्भागे प्राङ्मुखः स्थित्वा स्वस्य दक्षिणतः प्रत्यङ्मुखी यथा स्यात्तथा प्रतिनिवर्त्य,