पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५७३

पुटमेतत् सुपुष्टितम्
[विवाहः]
५६५
संस्काररत्नमाला
( विवाहहोमः )
 

 ततः पुनरुपस्तरणलाजावपनादि परिक्रमणान्तं द्वितीयं तृतीयं च । तृतीये शूर्पस्थानां प्रत्यञ्जनं नास्तीति विशेषः ।

 तत आज्येनैव स्विष्टकृतं हुत्वा जयादीञ्जुहुयात् । यथापुरस्तादितिवचनं जयहोमे राष्ट्रभृद्धोमे च मन्त्रविषये पक्षान्तरस्यापि सत्त्वादुपनयने यः परिगृहीतः पक्षः स एवात्रेतिज्ञापनार्थम् । उपनयने जयहोममन्त्रविषये यथापुरस्तात्पक्षद्वये पूर्व एव यथा प्रकार उक्तस्तथैवात्र कार्य इत्येतदर्थमेव वाऽत्र न तु पुरस्तात्स्विष्टकृत इत्यस्यापि प्राप्तिः । तृतीयं परिक्रम्येत्यनेन ल्यप्प्रत्ययेन स्विष्टकृति तृतीयपरिक्रमणाव्यवधानस्योक्तत्वेन स्विष्टकृत्पूर्वकालत्वस्य बाधितत्वात् । अत्रेतिवचनं विप्रस्यानिन्दितेषु विवाहेष्वेव यथा स्यादित्येतदर्थम् । एतेन तृतीयं परिक्रम्य जयादीन्हुत्वा स्विष्टकृद्धोम इति कारिकाकृदुक्तः क्रमः परास्तः ।

 ततः शुल्बप्रहरणादि संस्थाजपान्तं कर्म समापयेत् । नात्र त्रिवृदन्नहोमः ।

 ततोऽपरेणाग्निमाचारात्सप्ताक्षतपुञ्जान्प्राक्संस्थानुदक्संस्थान्वा कृत्वा दक्षिणं पादं प्रक्रम्य सव्येनानुप्रक्राम मा सव्येन दक्षिणमतिक्रामीः, इति भार्यां संशास्य तस्या दक्षिणं पादं प्रगृह्याप्रगृह्य वा सप्तस्वक्षतपुञ्जेषु यथाक्रमं भार्यया विष्णुक्रमान्क्रामयति स्वयमपि क्रामतीत्येके । मन्त्रवक्ता वर एव लिङ्गात् । 'ॐ एकमिषे विष्णुस्त्वाऽन्वेतु' इति प्रथमं विष्णुक्रमं कामयति । 'ॐ द्वे ऊर्जे विष्णुस्त्वाऽन्वेतु' इति द्वितीयम् । 'ॐ त्रीणि व्रताय विष्णुस्त्वाऽन्वेतु' इति तृतीयम् । 'ॐ चत्वारि मायोभवाय विष्णुस्त्वाऽन्वेतु ' इति चतुर्थम् । 'ॐ पञ्च पशुभ्यो 'विष्णुस्त्वाऽन्वेतु' इति पञ्चमम् । 'ॐ षड्रायस्पोपाय विष्णुस्त्वाऽन्वेतु' इति षष्ठम् । 'ॐ सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वाऽन्वेतु' इति सप्तमम् ।

 ततः 'ॐ सखायौ सप्तपदा बभूव सख्यं ते गमेय सख्यात्ते मा योष सख्यान्मे मा योष्ठाः' इति तथैवावस्थापितपादायां भार्यायां वरो जपति ।

 ततोऽस्या दक्षिणं पादं स्वदक्षिणेन पादेनाऽऽक्रम्य दक्षिणेन हस्तेनास्या दक्षिणमंसमुपर्युपर्यन्ववमृश्य 'ॐ मम हृदये हृदयं ते अस्तु मम चित्तं चित्तेनान्वेहि मम वाचमेकमना जुषस्व बृहस्पतिस्त्वा नियुनक्तु मह्यं मामेवानुस रभस्व मयि चित्तानि सन्तु ते मयि सामीच्यमस्तु ते मह्यं वाचं नियच्छतात्'  इति तस्या हृदयदेशमभिमृशति । ॐ प्राणानां ग्रन्थिरसि समाविस्रसः'  इति तथैव नाभिदेशमभिमृशति ।