ततस्तामपरेणाग्निं प्राङ्मुखीमुपवेश्य तस्याः पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्नापो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । हिरण्यवर्णा इति मन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमानानुवाकस्य प्रजापतिर्ऋषिः । पवमानसुवर्जनादयो लिङ्गोक्ता देवताः । गायत्र्यादीनि च्छन्दांसि । सर्वेषां मार्जने विनियोगः । 'ॐ आपो हि ष्ठा० ३ हिरण्यवर्णाः० ४ पवमानः सुवर्ज० त्या पुनातु' इति सकुशपल्लवेनाऽऽसादितकलशोदकेन सर्वान्ते तत्तन्मन्त्रसमुदायान्ते वा भार्यां मार्जयति । प्रतिमन्त्रमिति केचित् ।
ततो वृद्धब्राह्मणा ज्ञातिबान्धवाः सुवासिन्यश्चाऽऽशीःपूर्वकं वधूमूर्धन्यासादितानि ब्रीह्यादिबीजानि 'ॐ या जाता ओषधयः' इत्यादिभिर्मन्त्रैर्यथाचारमारोपयन्ति ।
ततोऽग्नेः पश्चादुपविश्य विभूतिं धृत्वाऽग्निं संपूज्य कृतस्य विवाहहोमकर्मणः साङ्गतासिद्ध्यर्थमाचार्यादिभ्यः पूजनपूर्वकं दक्षिणां दत्त्वा यथाविभवं ब्राह्मणान्सुवासिनीश्च भोजयेत् ।
ततोऽस्मे देवास इत्याद्या आशिषो द्विजा दद्युः । ततो वरः कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
इति विवाहहोमः ।
ततो वधूवराविक्षुविकाराल्लँवणं चानश्नन्तौ वस्त्राभरणादिभिर्यथाविभवमात्मानमलंकुर्वाणौ वर्जितमैथुनावधःशायिनौ सह वसतः । एतच्च व्रतं पाणिग्रहणदिनमारभ्य ज्ञेयम् ।
अथ वधूप्रवेशः ।
तत्र नारदः--
"आरभ्योद्वाहदिवसात्षष्ठे वाऽप्यथवाऽष्टमे । |
वृद्धवसिष्ठोऽपि--
"षष्ठेऽष्टमे वा दशमे दिने वा विवाहमारभ्य वधूप्रवेशः । |
स्मृत्यन्तरे तु--
"वधूप्रवेशः प्रथमे तृतीये शुभप्रदः पञ्चमकेऽथवाऽह्नि । |