पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५७५

पुटमेतत् सुपुष्टितम्
[विवाहः]
५६७
संस्काररत्नमाला
( वधूप्रवेशः )
 

 स्मृतिसागरे--

"वधूप्रवेशो न दिवा प्रशस्तो नवप्रवेशो न निशि प्रशस्तः ।
रात्रौ दिवा स्यात्तु गृहप्रवेशः स कीर्तितः स्यात्त्रिविधः प्रवेशः" इति ।

 रात्रौ दिवा स्यादिति विशीर्णसज्जीकृतगृहप्रवेशविषयम् । रात्रौ दिवा स्यात्तु गृहप्रवेश इत्यनन्तरं कर्तव्य इति शेषः ।

 स्पष्टमेतदुक्तं ज्योतिर्निबन्धे--

"वधूप्रवेशस्तु निशि प्रशस्तो नवप्रवेशस्तु दिवा प्रशस्तः ।
रात्रौ दिवा सज्जगृहप्रवेशः प्रोक्तो भरद्वाजमुनीन्द्रमुख्यैः" इति ।

 रत्नमालायाम्--

"हस्तेन्दुमैत्रश्रवणाश्वितिष्यपौष्णश्रविष्ठाश्च पुनर्वसू च ।
श्रेष्ठानि धिष्ण्यानि कृतप्रयाणे त्यक्त्वा त्रिपञ्चादिमसप्तता[१]राः ।
चित्राविशाखानिलसार्पयाम्यवायव्यपित्र्येश्वरदैवतानि ।
यात्रास्वनिष्टान्यपराणि भानि स्मृतानि नेष्टानि न निन्दितानि" इति ।

 इन्दुर्मृगशिरः । धिष्ण्यानि नक्षत्राणि ।

मुहूर्तसंग्रहे--

"रेवतीहस्तमित्राश्विरोहिणीचान्द्रवास[२]वाः ।
त्रीण्युत्तराणि मूलं च वैष्णवं शततारकाः ।
पैतृकं च तथा श्रेष्ठं प्रवेशनविधौ तथा ।
रिक्ताः पर्वाष्टमी विष्टिर्वर्ज्याः शेषाः शुभावहाः ॥
शुभांशे शुभवारेषु शुभदृष्टे शुभांशके ।
निशि प्रवेशासंपत्तौ दिवा वा शोभनो भवेत्" इति ॥

 व्यवहारतत्त्वे--

"पौष्णात्कभाच्च श्रवणाच्च युग्मे हस्तत्रये मूलमघोत्तरासु ।
पुष्ये च मैत्रे च वधूप्रवेशो रिक्तेतरे व्यर्ककुजे च शस्तः" इति ॥

 कभं रोहिणीनक्षत्रम् । व्यर्ककुजे रविभौमवारव्यतिरिक्तवारेष्वित्यर्थः ।

 स्मृत्यन्तरे--"दिनक्षयादिदोषेषु वध्वा वेशो गृहे न सत्(न्) " इति ।

 वेशः प्रवेशः ।



  1. क. ख. ताराः इ ।
  2. ख. ग. ङ. च. सराः । त्री ।