पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५७७

पुटमेतत् सुपुष्टितम्
[विवाहः]
५६९
संस्काररत्नमाला
( वधूप्रवेशः )
 

 भर्त्रा सह गमने प्रतिशुक्रदोषो न ।

 तदुक्तं भीमपराक्रमे--

"स्वामिना नीयमानायाः प्रतिशुक्रो न विद्यते" इति ।

 मत्स्यपुराणे--

"चतुःशालं चतुर्द्वारमलिन्दैः सर्वतोयुतम् ।
नाम्ना तत्सर्वतोभद्रं न तत्र प्रतिशुक्रता ॥
काश्यपेषु वसिष्ठेषु भृग्वत्र्याङ्गिरसेषु च ।
भारद्वाजेषु वात्स्येषु प्रतिशुक्रो न विद्यते" इति ॥

 ज्योतिःसागरे--

"पौष्णादिवह्निपादेषु यावत्तिष्ठति चन्द्रमाः ।
तावच्छुक्रो भवेदन्धः संमुखं गमनं शुभम्" इति ॥

 तत्रैव वचनान्तरम्--

"रेवत्यादिमृगान्तेषु यावत्तिष्ठति चन्द्रमाः ।
तावच्छुक्रो भवेदन्धः संमुखं गमनं शुभम्" इति ॥

 अत्र भृगुगुर्वस्तापवाद उक्तो माण्डव्येन--

"नित्ययाने गृहे जीर्णे प्राशनान्तेषु सप्तसु ।
वधूप्रवेशमाङ्गल्ये न मौढ्यं भृगुजीवयोः" इति ॥

 भृगुः शुक्रः । जीवो गुरुः । आचारः परं[१] नास्ति ।

 ज्योतिष्प्रकाशे--

"वामे शुक्रे नवोढायाः सुखं हानिश्च दक्षिणे ।
धनं धान्यं च पृष्ठस्थे सर्वनाशः पुरःस्थितेः ॥
नवोढायास्तु वैधव्यं यदुक्तं संमुखे भृगौ ।
तदेवं विबुधैर्ज्ञेयं केवलं तु द्विरागमे ॥
पूर्वतोऽभ्युदिते शुक्रे प्रयायाद्दक्षिणापरे ।
पश्चादभ्युदिते चैव यायात्पूर्वोत्तरे दिशौ" इति ॥

 तथा भाद्रपदमारभ्य पूर्वादिदिक्षु प्रतिदिशं मासत्रयं कपाटं ज्ञेयम् । चैत्रमारभ्य पूर्वाद्यष्टदिक्षु मुख्यदिशि मासद्वयं विदिक्ष्वेकं मासं क्रमेण कण्टकं जानीयात् । एतद्द्वयं ग्रामान्तरे नववधूगमने वर्ज्यम् ।



७२
 
  1. ग. ड. च. र तु ना ।