पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५७९

पुटमेतत् सुपुष्टितम्
[विवाहः]
५७१
संस्काररत्नमाला
( गृहप्रवेशप्रयोगः )
 

वान्देवता । द्वितीयस्याग्निः । इतरेषां प्रसिद्धा देवताः । ततस्तस्य संधानं कृत्वा रज्ज्वादेर्ग्रन्थिं बद्ध्वा स्वस्तिपदवतो मन्त्राञ्जपेत् । 'ॐ अभिव्ययस्व खदिरस्य सारम्' इति संधाने मन्त्र उक्तः शाङ्खायनेन । 'ॐ त्यञ्चिदश्वं न वाजिनम्' इति ग्रन्थिबन्धने । स्वस्ति नो मिमीतामिति पञ्चर्चसूक्तजपोऽपि तेनोक्तः । विवाहाग्निं सर्वमेकस्मिन्पात्रे भस्मना सह निक्षिप्य जायापत्योः पृष्ठतो हरन्ति । अयं चाग्निर्विवाहहोममारभ्य यावज्जीवं धार्यः । सूत्रे नित्यग्रहणेनैव यावज्जीवं धारणे सिद्धे धार्य इति वचनं प्रयाणव्यतिरिक्तस्थले स्थलान्तरे केनचिन्निमित्तेनाग्नेर्नयनं चेत्प्रत्यक्षमेव नयनं न तु समारोप इत्येतदर्थम् । आपस्तम्बानामप्येवम् । प्रयाणे तु यदि प्रयाया[१]दव्याख्यातमात्मन्नरण्योर्वा समिधि वा समारोपणमितिसूत्रात्समारोप एव न तु प्रत्यक्षनयनम् । खण्डस्य क्षेपकत्वकल्पे शकटादिना प्रत्यक्षनयनमेव कार्यं समारोपोऽपि वा । समित्समारोपोऽत्र परं नास्त्येव । धारणं तु यज्ञियैः काष्ठैर्गोमयपिण्डैर्वा कार्यं न तु तुषैः ।

 तदुक्तं संग्रहे--

"धार्योऽग्निमयैः पिण्डैः काष्ठैर्वा यज्ञियर्दृढैः ।
सर्वथा न तुषैर्धार्य इति विद्वत्प्रभाषितम्" इति ॥

 पारिजाते--"न तुषैर्धारयेदग्निम्" इति ।

 स चेदनुगतस्तदा तदनन्तरमेव मथितव्यः । श्रोत्रियागाराद्वाऽऽहरणीयः । यदि पूर्वं मथितो भवति तदाऽवक्षाणेभ्योऽधिमथितव्यः । अवक्षाणं तदग्निस्थं किंचिद्दग्धं काष्ठम् । यद्यसमर्थान्यवक्षाणानि स्युस्तदा तद्भस्मनाऽरणी संस्पृश्य मथितव्यः । यद्याहृतस्तदाऽऽहरणीयः । प्रायश्चित्तसूत्रेऽवक्षाणानीति बहुवचनं यद्येकस्मादवक्षाणादग्निर्नोत्पद्यते तदाऽन्यस्मान्मथितव्यः । ततोऽप्यनागमने परस्मादिति न तु यावन्त्यवक्षाणानि तेभ्यो मथितव्य इति । सर्वेभ्योऽवक्षाणेभ्योऽनुत्पत्तावेवारणीमन्थनं न त्वेकावक्षाणमन्थनादनुत्पत्तावनन्तरमरणीमन्थनमिति । यद्यपि गृह्यसूत्र इदं नोक्तं तथाऽप्यविरुद्धत्वाद्ग्राह्यम् । अविरोधिनामपेक्षितश्रौतविधीनां प्राप्तिस्तु श्रौतसूत्रमध्ये गृह्याम्नानवलाल्लभ्यते ।

"अनुगतो मन्थ्यः श्रोत्रियागाराद्वाऽऽहार्य उपवासश्चानुगते भार्यायाः पत्युर्वा"

 इत्यनुगमनप्रायश्चित्तसूत्रम् । चशब्दो मन्थनाहरणाभ्यामुपवाससमुच्चयार्थः । अनुगताधिकारे पुनरनुगतवचनं प्रागूर्ध्वं च विवाहपरिसमाप्तरेतत्प्रायश्चित्तं भवेदित्येतदर्थम् । तस्मात्सर्वत्रानुगते मन्थनेनाऽऽहरणेन वोत्पाद्योपव



  1. क. च. याद्वयाख्या ।