पक्षे विकिरेदित्यस्य रेतोमूत्रपुरीषोत्सर्गं कुर्यादित्यर्थः । अधितिष्ठेदित्यत्र द्वितीयान्ते स्थण्डिलोद्धतपदे अनुवर्तनीये । ) स्थण्डिलग्रहणं कुण्डोपलक्षणम् । श्वग्रहणं[१] निषिद्धद्विपदचतुष्पदपशूपलक्षणम् ।
रेखालेखनप्रकारोऽवोक्षणादि च धर्मसूत्रे--
"यस्मिन्देशेऽग्निमुपसमाधास्यन्स्यात्तत्र प्राचीरुदीचीश्च तिस्रस्तिस्रो रेखा लिखित्वाऽवोक्ष्योत्सिच्य तदुदकशेषमुत्तरेण पूर्वेण वाऽन्यदुपनिदध्यात्" इति । |
यत्र कुत्र गार्ह्ये सामयाचारिके वा कर्मणि गृहेऽरण्ये वाऽग्निमुपसमाधास्यन्प्रतिष्ठापयिष्यन्स्यात्तत्र पूर्वं प्राचीः प्रागग्रास्तिस्र उदगपवर्गा रेखा लिखेत् । उदगग्रास्तिस्रः प्रागपवर्गा रेखा लिखित्वाऽद्भिरवोक्षेत् । अवोक्ष्यैतदवोक्षणोदकमग्नेरायतनस्योत्तरतः पूर्वतो वोत्सिञ्चेत् । उत्सिच्यान्यदुदकं पात्रस्थमुपदध्यात् । पाके तु स्त्रिया(यो) न भवति(न्ति) । उपसमाधास्यन्निति लिङ्गस्य विवक्षितत्वात् । आर्याः प्रयता इत्यत्र तु भवतीति व्याख्यातमुज्ज्वलाकृता । अवोक्षणोदकादन्यदुदकं कर्मपर्याप्तमवोक्षणपात्रस्थं कृत्वा स्वसमीपे निदध्यात् । अथवा शुद्धजलपूरितकलशस्थमुदकमवोक्षणोत्सेचनार्थं पात्रान्तरे गृहीत्वा तेनोदकेनावोक्षणोत्सेचने कृत्वाऽन्यदवशिष्टं कलशपात्रस्थमुदकं कर्मार्थं स्वसमीपे निदध्यात् । अर्थत एवं समीप उदकनिधाने सिद्धेऽत्र वचनमुत्सेचनोत्तरमेव यस्मात्कलशादवोक्षणोत्सेचनार्थमुदकं गृहीतं तस्य कलशस्य स्वसमीपे स्थापनार्थम् । तेनोत्सेचनपर्यन्तं गृहमध्य एव कलशो भवेदिति सिद्धं भवति । अथवा तावत्पर्यन्तं भूमौ तत्कलशस्थापनं वारयितुमत्र वचनम् । न चैतस्यादृष्टार्थत्वमेवास्त्विति वाच्यं, प्रणीताद्युदककार्यनिष्पादनरूपे दृष्टे संभवत्यदृष्टकल्पनाया अन्याय्यत्वात् । उत्सेचनाभावेऽप्यावश्यकत्वादेतद्भवत्येव । रेखालेखनावोक्षणोत्सेचननिधानानां धर्मसूत्रे विधानं परिसंख्यानबलादग्निकार्यादिषु परिषेकादिव्यतिरिक्तगृह्यविहिततन्त्रनिवृत्तौ तद्विहितत्वाद्रेखालेखनावोक्षणोत्सेचननिधानानामपि निवृत्तिः स्यात्सा मा भूदित्येतदर्थम् । गृह्योक्ते कर्मण्येतेषामनावश्यकत्वार्थं वा । उदकनिधानं त्वावश्यकत्वाद्भवत्येव । वैश्वदेवे तु नैतदपि भवति । यथोपदेशं कुरुत इति विशेषवचनेन बाधात् । रेखालेखनाद्युदकनिधानान्तमुद्धनना-
- ↑ श्वग्रहणमित्यत्र श्वापदग्रहणमित्यपेक्षितम् । अथवा क. ख. पुस्तकस्थसूत्रपाठानुसारि ज्ञेयम् ।