स्तव्यमिति । नैतदस्ति । नित्यग्रहणादेव सिद्धत्वात् । इदं तर्हि प्रयोजनमनुगत इदमेव प्रायश्चित्तं स्यान्नान्यदिति । तेनास्त्यन्यदप्यन्यत्र प्रायश्चित्तमिति गम्यते । किं तत्, अपि वोत्तरया जुहुयान्नोपवसेदित्यापस्तम्बेनोक्तम् । उत्तराऽयाश्चाग्न इत्येषा । तत्रानभिशस्तीश्चेत्येतावान्वि[१]कार इति मातृदत्तो व्याख्यातवान् । एतद्भाष्यस्वरसान्नष्टापहारादिनाऽग्निविच्छेद उपवासाहुत्यात्मकमेव प्रायश्चित्तं न केवलमुपवास आहुतिर्वेति । अत्र भाष्ये-– अनुगमनव्यतिरिक्तस्थल उपवासाहुत्यात्मकप्रायश्चित्तप्रदर्शनेनान्यस्याष्टादशाहुत्याद्यात्मकप्रायश्चित्तस्य क्षेपकत्वं प्रदर्शितमन्यथेदमपि प्रदर्शितं भवेत् । सर्वस्य प्रायश्चित्तातिरिक्तभागस्य क्षेपकत्वं नेति तु तस्मिन्गृह्याणि कर्माणि क्रियन्त इत्येतस्य पाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षत इत्येतत्खण्डस्य प्रतीकमदर्शनाज्ज्ञायते । तस्यौपासनेनाऽऽहिताग्नित्वं पार्वणेन चरुणा दर्शपूर्णमासयाजित्वं चेति कश्चिदाचार्यो वक्ष्यतीति वैजयन्तीकृदुक्तिस्वरसात्तु सर्वस्य खण्डस्य क्षेपकता ज्ञायते । एवं च पुनःसंधानविधिरेव क्षेपकोऽन्यो न क्षेपक इति भाष्यकृद्ग्रन्थात् । वैजयतीकृद्ग्रन्थात्तु सर्वमपि खण्डं क्षेपकमिति । उभयग्रन्थतः पुनःसंधानविधेरेव क्षेपकत्वम् । एतत्सूरिभिर्निपुणतरं विभाव्य यद्युक्तं तद्ग्राह्यम् ।
ततोऽन्यतरमग्निं गोमयोपलिप्ते संस्कृतायतने स्थापयित्वा पतिरुपवसेत्, भार्या वा । प्रोषिते पत्यौ भार्याया उपवासः । अहन्यनुगत आसायमुपवासः । रात्रावनुगत आप्रातरुपवासः । उपवासासामर्थ्यादावुपनयनप्रकरणोक्तमयाश्चेत्याहुत्यात्मकं प्रायश्चित्तं सर्वप्रायश्चित्तहोमश्च कर्तव्यः । दिवोपवासे सायमेव लुप्तहोमः कार्यः । रात्रावुपवासे प्रातरेव । उपवासमात्रमेव वा न तु होमः । आहुतिपक्षे तु प्रायश्चित्तहोमानन्तरमेव । यदि पतिः प्रोषितः स्वस्याश्चोपवासासामर्थ्यं तदा होमार्थमृत्विजं वृत्वा तेनायाश्चाग्न इत्याहुतिं हावयेत् । ऋत्विगभावे स्वयमेव जुहुयात् ।
अथ वरः स्वगृहद्वारं प्राप्य दक्षिणं पादमग्रेऽतिहर देहलिं माऽधिष्ठा इति भार्यां संशास्ति । सा दक्षिणं पादमग्रे कृत्वा देहलीमनधिष्ठायैव गच्छति ।
ततो गृहं प्रविश्य तत्पूर्वार्ध्यशालायामग्न्यायतनं परिकल्प्य तत्पश्चात्सभार्यः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम विवा
- ↑ क. न्विचार ।